पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्र०पटलः ] गोपीनाथमट्टकृतज्योत्स्नाव्याख्यासमेतम् । ५७१ च स्वाहाकारस्ता तूष्णीकेनाऽऽज्येन सकृट्टहीतेनाग्रेणाऽऽहवनीयं परीत्य दक्षिणतः स्तिष्ठ ह्वाऽऽहवनीयेऽध्वर्युः स्वाहाकारेण जुहाति द्विप्रभृत्याहुतिगणेषु प्रत्याहुति गृहीत्वा प्रत्याहुति समिधोऽभ्याधाय विग्राहं जुहोति यत्र मन्त्रगणेन कर्म चोदये. प्रतिमन्त्रं तत्र मुहुयादिति परिमाषासूत्राद्दविहोमधर्मः सर्वत्र ।

सप्तहोतारं मनसाऽनुदुत्य सग्रहꣳ हुत्वा दीक्षणीयामिष्टिं निर्वपति ।

सप्तहोतृहोमे यजमानेनाध्वर्योरन्वारम्भः कर्तव्य इति बौधायनेनोक्तम् --सप्तहोतारं मनसाऽनुदुत्याऽऽहवनीये जुहोत्यन्वारब्धे यजमाने खाहेतीति सूत्रेण । वाचस्पति- देवता मन्त्रलिङ्गात् । अत्र केचित्-ब्रह्म वै चतु)तार इत्यर्थवादाबह्मण इत्यप्युच्चार्यम्। तयाच वाचस्पतये ब्रह्मण इदमिति त्यागवाक्यमिति वदन्ति । पूर्वसूत्रादीक्षिष्यमाण- पदमत्राप्यनुवर्तते । अस्ति चोमयत्र श्रुतिः-दीक्षिष्यमाणः सप्तहोतारं मनसाऽनुहु- त्याऽऽहवनीये जुहुयादिति, आग्नविष्णवमेकादशकपालं निर्वपति दीक्षिष्यमाण इति । दीक्षिष्यमाण इति लुट्प्रत्ययेन कियार्थायां कियायामुपपदे विहितेन दीक्षाकर्तृसंस्कारा- धत्व बोध्यते । यमनियमपरिग्रहानुकूछयोग्यतारूपा दीक्षा तत्कर्तृसंस्कारार्था दीक्ष- णीया । वक्ष्यमाणानां कृष्णाजिनमेखलादण्डादीनां तु अक्रियारूपत्वाद्दोक्षाभिव्यञ्जक- त्वमात्रं नतु दीक्षणीयेष्टिवद्दीक्षार्थत्वम् । अत इष्ट्यनन्तरमेव दीक्षितो न जुहोति न दंदा- तीत्यादयो दीक्षितधर्माः। पञ्चमाध्याये तृतीयपाद उक्तमेतजैमिनिना-परेणाऽऽवेदनाद्दीक्षितः स्यात्सदीक्षा- मिसंबन्धात्। इष्टयन्ते वा तदर्थी विशेषार्थसंबन्धात् । समाख्यानं च तद्वदिति सूत्रात् । सरिष्टिदण्डादिभिदीक्षामिसंबन्धात् , आवेदनात्परेण दीक्षितमावेदयतीति विहितात्प- रेणाऽऽवेदनानन्तरमिति यावत् । दीक्षितः स्याद्रवोदिति । एनपा द्वितीयेत्यत्र -पञ्च- ग्यपि दृश्यत इति वचनं कल्पयित्वा परेणाऽऽवेदनादिति प्रयोगः समर्थनीय इति तत्ररत्ने । तथाच दीक्षितधर्माणामत्रैव प्रवृत्तिरिति पूर्वसूत्रार्थः । द्वितीयसूत्रार्थस्तु इष्ट्यन्ते वा वाशब्दः पूर्वपक्षव्यावर्तकः । इष्टयन्त एव दीक्षाधर्माणां प्रवृत्तिः । हि यस्मा- कारणादविशेषार्थसंबन्धात्तदर्था अत इष्टेरेव मुख्यत्वात्तदन्ते तत्समाप्त्यव्यवहितोत्तरमे - व दीक्षाधर्मप्रवृत्तिरिति । न विद्यते विशेषो विशेषवाक्यापेक्षा यत्र निरपेक्षेति यावत् । एतादृशोऽर्यों दीक्षणीयेष्टिः । दीक्षणीयेष्टिरितोष्टिसमाख्यानमपीष्टयुत्तर दीक्षितधर्माणां प्रवृत्तिरिति पूर्वमुत्रसाधकवत्तद्वदुपयुक्तं भवतीत्यस्यार्थः । इति तृतीयसूत्रार्थः । नन्वेवं वाग्य- मनोत्तरं दीक्षितधर्माणामुपादानं सूत्रकृदुक्तं निर्हेतुकं स्यादिति चेत्सत्यम् । कृष्णाजिनमेखलादण्डादिदानप्रभृतिकर्मणोऽपि दीक्षारूपत्वामावेऽपि दीक्षार्थत्वं परम- स्त्येवेति । तथाचैतस्यापि कर्मणोऽपराह् एव क्रियेतिज्ञापनरूपहेतुलाभेन निर्हेतुकत्वा- .