पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ८१० सत्याषाढविरचितं श्रौतसूत्रं- [भष्टपप्रमे- इति । कयातिदेशात्पञ्चकृत्यो यजुषा मिमीते पञ्चकृत्वात्प्णीमिति विधिना मान भवति । अतिदेशाभावे पश्चभिर्म त्रैरेकैकेन मन्त्रेणैकैकमित्येवं पञ्चवारः मीत्वा तैरेव तथैव पुनर्मानं पञ्चवारमित्येवं दशवार मानं स्यात्तन्मा भूदित्येतदर्थ यथा क्रय इति वचनम् । अन्यदुपसमूहनादिति वचनं ऋयेऽवशिष्टानां प्रथग्गृहीतानामत्रापि तेनैव पुनरत्र ग्रहणं स्यात्तन्मा भूरिक तु दशस्वेव मानेषु निःशेषमंशुक्षेपमं यथा स्यादित्ये- तदर्थम् । तेनायमों भवति मितमवशिष्टं च राजानमेकीकृत्य दश जूटिका नद्ध्या समन्त्रं पञ्च जूटिका अमन्त्रं च पश्न जटिका इत्येवं मिनोतीति । उपसमूहनादन्य.. दिति पर्युदासेन सहिरण्येन पाणिनके कयाऽगुल्या प्रसारितया सर्वास्वपृष्ठमुफ्- निगृह्णाति यया प्रथमं न तया पञ्चमं तयैव दशममित्येतत्सर्वमतिदिश्यते । वासस आस्तरणं परं न भवति तमधिषवण ऊसान निधायेतिविशेषविधिना तहाधात् ।

अधिषवणस्यैकदेशे राजानमपोदू(दु)ह्याऽऽदत्ते यावन्तमेकग्रहायाऽऽप्तं मन्यते प्रत्युपनह्येतरं निदधाति तमुपरे न्युप्य वसतीवरीभिरुपसृज्य श्वात्राः स्थ वृत्रतुर इति निग्राभ्याभिरुपसृजति ।

अधिषवणचर्मण एकदेशे रिक्त प्रदेशे राजानमपोदू(दु)ह्य मितप्रदेशादपसार्य तस्मादादत्ते । यावन्तमेकग्रहायेत्यादिवसतीवरीमिरुपसृज्येत्यन्तस्य पूर्ववव्याख्यानम् । निग्राभ्याः पूर्व व्याख्याताः । तामिरुपसूनति मिश्रयति । सोमः पिबत्विति मन्त्रान्तः । निग्राभ्यैकदेशेन यावन्महाभिषवमुपसर्जनम् । उत्तमेऽभिषवे समाप्तिः । आपस्तम्पेन स्पष्टमेवोक्तं-नासामेकदेशेनोपसृज्येति । होतृचमसे निग्राभार्थमवशेषयपात्रान्तरे निग्राम्या अवनीय होतृचमसे त्रिः प्रदक्षिणमनुपरिप्लावयति । यदा यदा निग्रामो- पायनं तदा तदा तदर्थ पात्रान्तरस्थानां निग्राम्याणां तावत्परिमितानां होतृचमत आनयनम् । होतृचमतस्थानां सर्वासामपि नियाभोपायने निग्राभ्याम् पुनः पुनर्निग्रा- भ्योपायनमसंगतं स्यात् । नियाभ्याणां निःशेषत्वे वसतीवरीभिरभिपूर्ण तासां तद्योनि- त्वात् । मन्त्रोऽत्र नैव भवति । व्यानयनरूपक्रियाया एवाभावेन तदर्थत्वस्यैवासंमवात् ।

यत्ते सोम दिवि ज्योतिरित्यभिमन्त्रयते ।

दात्रेऽवोच इति मन्त्रान्तः।

अभिमन्त्रणमेके पूर्वꣳ समामनन्ति ।

निमाम्योपसर्ननक्रियापेक्षया पूर्वस्वम् । अर्थानियाभ्योपसर्भनक्रियाया आनन्तर्यम् । विपरीतमेके समामनन्तीत्येतावतै। यद्यपि सिध्यति तथाऽपि मन्त्रपैपरीत्यमात्रमत्र शङ्कितं स्यात्तन्मा भूत, किंतु क्रियावैपरीत्यमपि यथा स्यादित्येतदर्थमावश्यकमे- बेदशं सूत्रम् । १ स. पा. ३ ।