पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० पटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमैतम् । ५६९ प्रत्यक्षत्वादभिशब्दार्थ आभिमुख्यं न भवति कित्यभिध्यानमेव । तथाचाभिशब्दोऽन्त्रि- त्युपसर्गस्यार्थे । तथाचाभिमन्यत इत्यस्यानमन्त्रणमेवार्थ इति । अथवा-एषा वै पितृणां दिगिति श्रुत्या दक्षिणदिशः पितृसंबन्धित्वदर्शनापितॄणामप्रत्यक्षत्वेऽपि तत्सं- बन्धिदिशः प्रत्यक्षत्वात्तदाभिमुख्येन पित्राभिमुख्यमेव । दिक्शब्देन देश एवात्र ग्राह्यः । अन्यथा तहोपतावस्थ्यापत्तेः। एतेन दूरत्वसमीपत्वकृतपरत्वापरत्वलिङ्गकानुमानगा म्याया दिशः कथं प्रत्यक्षत्वमिति शङ्का परास्ता । अत्र दक्षिणाभिमुखता, एषा के पितृणां दिगिति दर्शनात् । आपस्तम्भेनापि दक्षिणावृत्तः पितॄनुपतिष्ठत इति दक्षिः णावृत्तशब्देनोक्ता । भरद्वाजस्तु पितृन्दक्षिणामुख उपतिष्ठत इति स्पष्टमेव दक्षिणा मुखतामाह । अत्र प्राचीनावीते विकल्पः । अनियमोऽन्यत्रेति परिभाषासूत्रात् । यत्र यंत्र प्राचीनावीतित्वविधानं तत्रैव तन्नान्यत्रेत्यवश्यं वक्तव्यम् । अन्यथा तस्य वैय- र्थ्यांपत्तेः । तथा च प्रकृते विधानाभावाददनियमोऽन्यत्रेति परिभाषाया एव प्रवृत्तिः । यत्रैकस्मिन्द्रव्ये चेष्टापृथक्त्वेनापों निष्पद्यते सकृदेव तत्र मन्त्रं ब्रूयादिति परिभाष या सकृन्मन्त्रेण द्विस्तूष्णीमिति न भवति किं तु मन्त्रावृत्तिरेवात्र । अभिमन्त्रणस्योच्चार- पप्रधानत्वात् । स्वपितृपक्षे जीवरिपतृकस्यामिमन्त्रणे विकल्पः । तथा च लाद्यायन. दाह्मायणौ--यजुरन्तरयेऽन्वाहारं धानंजय्य उपेक्षण शाण्डिल्य इति । अस्याः-- यजुषामन्तरयो यजुरन्तरयस्तस्मिन्यजुरन्तरये । अन्तरय उत्सर्गः । जीवरिपतृकस्यैत- नमन्त्रोत्सर्गे विचार उत्सर्गः कर्तव्यो वा न कर्तव्य- इति । तत्र धानंजय्योऽन्वाहार मन्यते । अन्वाहारोऽनुत्सर्ग इति । उपेक्षणं वर्जनमिति शाण्डिल्यो मन्यत इति । यजमानस्य पितॄनग्निप्वात्तादीन्पितन्वाऽवमादीन्पितन्वोद्दिश्य जपः कर्तव्य एवेति धान. अय्याशयः । स्वानेव पितॄनुद्दिश्य जपः स्वपितृजीवने लोप एवेति शाण्डिल्याशयः । तथाथैवं सिद्धं भवति-स्वपितृपक्षे स्वपितु वने लोपः । यजमानपितृपक्षे यजमानपितृ जीवने. लोपः । दिव्यपक्षेऽमिष्वात्तादीनामुपस्थान जीवपितृकेणापि कार्यमेव । त्रयों ह नु वै पितरोऽवमा और्वाः काव्या इति च्छन्दोगश्रुत्युक्तानामवमादीनां वेति । एकव- चनादध्वयोरेव देवो देवमित्यादि न सर्वेषामृस्विनाम् । अथवा वृतो वृत इत्यनुवर्तनी- यम् । एवं च समन्त्रकमभिप्रजननं पन्था(थ्य)धिष्ठानमनिमन्त्रणं च सर्वेषामपि भवति । अस्मिन्पक्षे संमारयज़हमिऽपि सर्वकर्तृकतां व्यावर्तयितुमेवाग्रिमसूत्रे दाक्षिण्यमाणवचनम् । अत्र कूश्माण्डहोमः कर्मादिप्वाहयादिति श्रुतेः । स च श्रुत्युक्तरीत्या बौधायनोक्त- रीत्या वा । श्रुत्युक्तरीत्या क्रियमाणे वैश्वानरायेत्यनुवाकेन सणवोपस्थानं नत्वन्त्यया समिदाधानमेवं वरदानमपि न | बौधायनोक्तरीत्या क्रियमाणेऽन्त्यया समिदाधान वर- दानं च भवति । विष्योऽभ्यातिन्यथास्मिन्कुश्माण्डहोमे बौधायनोक्तरीत्या क्रियमा- णेऽपि न भवन्ति । उद्धरणपक्षे कूश्माण्डहोमार्थमुद्धृतमाहवनीयं परित्यज्याऽऽयतनं