पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७११ - १५०पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् ।

त्र्यवरार्धा अयुज एकधनास्थालीरादायाऽऽद्रवन्ति ।

तिस्रोऽवरो न्यूनोऽधों भागो यातां तास्यवराधीः । अर्धशब्दो भागवाची । अयु. मो विषमाः । एकधनास्थालोरिति एकमेव पदम् । एकधनासंज्ञकानामपां स्थालीर्यधा- यथं परिकर्मिग आदायाऽऽदवन्ति । बढुकर्तृकत्वाद्वहुवचनम् । एकैकां स्थाली प्रत्ये- कैकपरिकी न स्वेन द्वे स्थाल्यौ द्वाभ्यां हस्ताम्यामाहातव्यौ । वामहस्तेन जलाहर- गस्य सर्वदाऽपि स्मृतौ निषिद्धत्वस्योक्तत्वात्तदर्थ पुरुषभेद भावश्यक एव । अयुन इत्यनेन समसंख्याव्यावृत्तिः । अयुक्त्वावधिनियम आपस्तम्बेनोक्तः-एतस्यैव हविर्धा- नस्य पश्चादक्षं त्रीने कधनान्धानपञ्च सत नवैकादश वेति । बौधायनोऽपि प्रेषविशेष. मेवोक्तवान् - अयुज एकघनास्यवमानेकादशपरमानिति । त्रिप्रमृतीनां विषम- ख्यानां संस्थावशाद्विनिवेश उक्थ्ये पञ्च, षोडश्यां सप्त, अतिरात्रे नव, भप्तोर्याम एकादशेति ।

प्रेह्युदेहीति नेष्टा पत्नीमुदानयति ।

श्रेषेणैव नेतृकर्तृकत्ये सिद्धे पन्नेननीमहणार्थनयनमेव नेष्ट शब्दार्थ इति प्रदर्शयितुं नेष्टाहणम् । नेष्टा पस्नोमुत्पाप्याऽऽनयति । उच्छब्दादुत्थाप्याऽऽनयति । पूर्वमेष केनचिदपि निमित्तनोस्थितामपि उपमेश्य मन्त्रेणोत्थाप्यवाऽऽनयतीत्यर्थः । पन्नेजनी स्थानी धारयमाणामित्यापस्तम्बः । यत्तत्तरेणाऽऽमीधीयं परीत्य गमनं सर्वत्र यथोत्तरे- णान्तर्वेवि संघरो भवतीति, इति संचरणार्थस्थलावशेषवचनादिति केचित् , तत्तुच्छम् । वैसर्जनहोमादिषु तद्देशगमनविधानस्य वैयपित्तेः । अतो यत्र विधानं तत्रैव नान्प. ति द्रष्टव्यम् । एतेन वैसन नमार्गेण पत्न्यानयनमिति प्राचीनोक्तिः परास्ता । पल्य- नेकत्ये सर्वा अपि पर्यायेणोदानपति । मा मा हिसीरिति मत्रान्तः । उन्नेतुः कर्मणः प्रेषेणैव स्पष्टतयाऽर्यावगमादकपनम् । भत्र विशेषमाहाऽऽपस्तम्बः-तीर्थेनाभित्र- मन्तीति । चात्वालोस्करयोरन्तराळं तेन सर्वे गच्छन्तीत्यर्थः ।

यत्र होतुः प्रातरनुवाकमनुब्रुवत उपशृणुयात्तदपोऽध्वर्युर्गृह्णीयात् ।

यत्र पस्मिन्प्रदेशेऽपा ग्रहणार्थ स्थितः सन्प्रातरनुवाकमनुब्रुपतो होतुः प्रातरनुपा- कमुपशृणुयात्तत्तत्र तस्मिन्प्रदेशेऽपोऽध्वर्युझीयादित्यर्थः । वहन्तीनाभित्यापस्तम्यः । अध्वर्युग्रहणं नेष्ट्रनवृत्ति वारयितुम् । भपां ग्रहणकाले प्रातरनुवाकाश्रवणे दोषमाह स एव-यदि न शृणोति बधिरो ह भवति वाचो ह विच्छिद्यत इति । वाचो ह विच्छिद्यते मूको भवतीत्यर्षः । ननु यदि तावति देश आपो न स्युस्तदा किं कर्तव्यमित्याकाक्तायामुपायमाह-

यदि दूरे स्युरुदू(दु)ह्य गृह्णीयाद्यत्र होतुः शृणोति ।

यदि प्रातरनुवाकश्रवणं यत्र स्थितस्य न जायते तावति दूरे प्रदेश आपः -