पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८७ । १५०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् ।

अधिश्रयणमन्त्रेण धाना लाजाꣳश्च भर्जयति ।

अधिश्रयणमन्त्रो धर्मोऽसि विश्वायुरिति, तेन मन्त्रेण धाना लानांश्च भर्नयति । पुरोडाशस्य कपालेषु स्थापनेऽयं मन्त्रो यथा तथा यवतण्डुलानां वोहीणां च कपालयोः प्रक्षेप एतस्य मन्त्रस्य प्राप्तिः स्यात्सा मा भूकि तु भर्नन एवैतस्य विनियोगो यथा स्यादित्येतदर्थमिदं सूत्रम् । तेन यावद्धर्जनं तावत्पर्यन्तं मन्त्रावृत्तिः । मत्रान्ने भन. नानुकूलव्यापार आरब्धव्य इति वेति सिध्यति धर्मोऽसीत्यस्यैकवचनान्तशब्दवतो मन्त्रस्य प्रकृतेऽसमर्थत्वादूहः कार्यः । तत्र धर्माः स्थ विश्वायुष इति यवतण्डुलेषु, लाजानीहिष्वपि धर्माः स्थ विश्वायुष इति । प्रकृतिवद्वा धर्मोऽसि विश्वायुरिति परि- वाप इति तेषामेकवदेव चोदनात् । धर्मशब्देन हविरेव संस्तूयते न तु तदवयवभूतत- ण्डुला इत्यस्मिन्पक्षे धानास्वपि नोह इति द्रष्टव्यम् । धानानां लानानां च प्रथमलेपा- नुमानने न स्तः । असंभवात् । पर्यग्निकरणं संस्कारत्वात्संभवाच्च सर्वेषाम् । आमि- क्षायास्तु न तस्या अपूर्वधर्मवत्त्वात् । अभिज्वलनं तु पुरोडाशस्यैव नेतरत्रांसंभवात् । अग्निस्त इत्यस्त्येव । परितस्तपनस्य पाकानुकूलत्वेनाऽऽवश्यकत्वात् । सं ब्रह्मणेति नास्ति असंभवात् । अविदहन्तः श्रपयतेति त्वस्त्येवे । अस्यार्थस्य प्रकृते उपेक्षितत्वात् । य(प)कारोऽपपाठ एव । णिजन्तता वा कल्पनीया । लाजशब्दस्य बहुवचनान्तत्वं पुंलिङ्गं च दाराक्षतलानानां बहुत्वं चेति लिङ्गानुशासनसूत्रेण ।

अनुपदह्यमानाः परिशेरते ।

उपशब्दोऽत्रात्यर्थकः । यावदुद्वासनं स्वे स्वे कपाल एव परिशेरतेऽवस्थिता भवेयुः । अनुपदह्यमाना इति वचनाद्यथाऽतिदाहो न भवति तथा कमेण भर्ननम् । किंचिदाहस्य दुष्परिहार्यत्वान्नावर्जनीयत्वम् । महापितृयज्ञे तु बहुरूपा धाना मव- न्तीति श्रुतेः कालांचिदतिदाहोऽपि न दोषाय । अन्यथा बहुरूपत्वमनुपपन्नं स्यात् आप्यनिनयनं गार्हपत्यस्य पश्चादेव महावेद्या आस्तृतत्वात्, जघनेन गार्हपत्यमाध्यम्यो निनीयेति बौधायनोक्तेश्च ।

यत्प्रागलंकरणात्तत्कृत्वा विभागमन्त्रेण धाना विभज्य पिष्टानामावृताऽर्धाः सक्तून्कृत्वा संयवनमन्त्रेण संयौति स करम्भो भवति ।

वाजिनपात्रं प्राशित्रहरणं चाऽऽसादितैर्वेदात्रैः संमृज्य तानि प्रहत्य धानादीनि उद्वासयति । धानाभ्यो लाजाम्यश्चाध्यूहनाभावादेवाशारापोहनाभावः । अधिश्रयण- मन्त्र जहः कृतश्चेदनिमन्त्रणादिमन्त्राणामप्यूहः । इदमह५ सेनाया इति पुरोडाशस्यैव । 1 ख. ग. "ति पैषोऽस्त्ये । २ ख, ग, व । प्रैषार्थ ।