पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०. पटलः ]. गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । छानमेव । यदि तु वसन्तेऽन्तिममेव पविशिष्टं तच व्यतीपातादिदोषग्रस्तं तत्र श्रौतस्य प्रावल्यात्कारम्मः कर्तव्य एवेति यद्यपि प्राप्त तथाऽपि ज्योतिःशास्त्रस्य "निरवकाशत्वाद्वेदाङ्गत्वेन समबलत्वाच्च तदुक्ता दोषा अप्यङ्गोकार्यो एवेत्यस्त्व- प्रस्तुतविचारः । यदि त्वेकादिदीक्षास्तत्रापर्वणि मुत्यमहदींक्षा वेत्येतावत्येव वक्तव्ये चतुर्णा पृथगुपादानमारम्भे यः पक्षः कर्तव्यो भवति तस्य संकल्पे ऽवधारणं कर्तव्यं पञ्च- षट्सप्ताष्टनवदशैकादशान्यतमसंख्यात्मकापरिमितदीक्षापक्षे पञ्चषट्सप्ताष्ट नवदशैकाद- शान्यतमाविभक्तिकसंख्याशब्दमुच्चा-परिमितदीक्षापक्षमाश्रित्येत्येवमुच्चार्यमित्येवरूपेण संकल्पेऽवधारणम् , एकद्वित्रिचतुरन्यतमसंख्यात्मकदीक्षापक्ष एकद्वित्रिचतुरन्यतमम- विमक्तिक संख्याशब्दमुच्चार्य दीक्षापक्षमाश्रित्येत्येवमुच्चार्यमित्येवंरूपेणैव संकल्पेऽव. धारणमित्येताहशप्रयोजनभेदं प्रदर्शयितुम् । युगपत्कामयेताऽऽहारपृथक्त्वे वेति प्रथ- मसूत्रप्रयुक्तो विचार इत्यनन्तरं निरूपणम् । कालस्य सर्वापेक्षया मुख्यानत्वात्तदनन्तरं विधिः । प्रसङ्गसंगत्या तदनन्तरं प्रकृतिविकृतिपौपिनियामको दर्शपूर्णमासारम्मा- साकर्तव्यतानिषेधः । तदनन्तरं प्रसङ्गसंगत्वाऽनिष्टोमस्य सर्वसोमप्रकृतित्वप्रदर्शनम् । प्रसङ्गसंगत्याऽतिरात्रस्याग्निष्टोमपूर्वमावित्वप्रदर्शनम् । आकाक्षितत्वात्तदनन्तरं दीक्षाणां यागार्थानां संख्यादिप्रदर्शनं चात्रैव कृतमिति द्रष्टव्यम् । अमावास्यायां यजनीयेऽ. हनीत्यादिदीक्षा वेत्यन्त सर्वक्रतुसाधारणम् । विशेषतस्तु तत्र तत्र सूत्रकारः एक वक्ष्यति । यत्र कर्तृनिर्देशो नास्ति तत्र य देनाध्वर्युरिति परिभाषयाऽवयुरेव कर्तेति सार्वत्रिकम् ।

महन्मेऽवोचो यशो मेऽवोचो भर्गो मेऽवोचो भुक्तिं मेऽवोचः स्तोमं मेऽवोचः सर्वं मेऽवोचस्तन्माऽवतु तन्मा विशतु तेन भुक्षिषीयेति वृतो वृतो जपति ।

यज्ञोपवीतं कृत्वाऽप आचम्य प्राङदवा तिष्ठञ्जपत्यासीनो वेति भरद्वानः । यजमानेन वृतो वृत ऋविगिम मन्नं जपतीत्यर्थः । वृतो वृत इति वीप्सा यदेनाध्वर्युरिति परिभाषयाऽध्वयोरेव स्यात्तन्मा मृत् । किं तु सर्वेषामपि यथा स्यादित्येतदर्थम् । वृतो यजमानेन प्रार्थनया स्वकर्तव्याग्निष्टोम आविज्य- प्रवृत्तिमाकृत इत्यर्थः । तथा चाऽऽश्विज्यप्रवृत्तावेवायं मन्त्रजप इति लम्यते । अमुमर्थमाहतु द्यायनद्राह्मायणौ-सोमप्रवाकमकरिष्यन्नमः सोमाय राज्ञ इत्युक्त्वा प्रत्याचक्षीत महन्मेऽवोच इति करिष्यन्प्रतिमनयेतेति । एतेनायाजयिष्यतोऽपि पो भूर्भुवः सुवरायुमें प्रायोचो वर्षों में प्रावोचो यशो मे प्रावोचः श्रियं मे प्रावोच आयु- प्मानहं वर्चस्वी यशस्वी श्रीमानपचितिमान्भूयास भूर्भुवः सुवः सबै भूयासमित्युक्त्वा प्रति वाऽऽचष्टे प्रति वा जानीत इति भारद्वानोक्तो निवार्यते । प्रत्याख्यानं निराकर-