पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८२ सत्याषाढविरचितं श्रौतसूत्रं- [ (अधमप्रश्ने- नियमार्थ सवनीयासंबन्धिकमैव प्रतिप्रस्थातृकर्तृक नतु सौमिकमिति । तथा च शृणोत्त- मिरित्यादावनु कोऽप्यध्वथुरेव कर्तेति सिध्यति । अथवा सवनीयानामिति वचनं सवनीयानामेव प्रति नस्थाता नियत इतरेषु सत्येषु सौम्यादिनिपेिषु नायं नियत इति । तेनाध्वर्युवत्प्रतिप्रस्थाताऽपि सौम्यादिचरुघु पक्षे कर्ता भवतीति सिद्धं भवति । प्रतिप्रस्थातृकर्तृकता सौम्यचरौ बौधायनेन स्पष्टभेवोक्ता श्रेषेणैव-प्रतिप्रस्थातर्वारुणमे- ककपालं निर्वप सौम्यस्य विद्धीति । अत्र नियमार्थ प्रतिप्रस्थातव कति । तेन माध्य. दिनसवनतृतीयसवनयोः पक्षेऽन्यकर्तृकताऽप्यस्तीति सिद्धं भवति । स च बौधायनसूत्रे दृष्टवादाग्नीधः । पात्रससाद नप्रभृतीनीतिवचनात्पाणिप्रक्षालनोलपरानीस्तरणयोनि- वृत्तिः । अथवोलपरानीस्तरणमात्रस्यैव निवृत्तिः । तस्य जातत्वात् । पाणिप्रक्षालनं तु कर्मणे वां देवेम्यः शकेयमित्याह शक्त्या इति शक्तिरूपपुरुषनिष्ठसंस्कारस्यावश्यमपे- क्षितत्वाकर्तव्यमेवेति । तथा चाऽऽपस्तम्बः-सवनीगनां पाणिप्रक्षालनादिकर्म प्रति- पद्यत इति । प्रतिपद्यत आरभत इत्यर्थः । यथार्थ यथाप्रयोजनम् । ओषधिग्रहणस्य पाशुकव्यावृत्तिपरत्वादैष्टि कहविरुपलक्षणीयमनेन । तेनाऽऽमिक्षावानिनसंयुक्तानामपि प्रयोगः । यानि पश्चर्थ न प्रयुक्तानि अर्थवन्ति च तानि प्रयुनक्तांत्यर्थः । तानि च सूर्पकृष्णानिनशम्योलूखलनुप्सलदृषडुपलावानिनपात्रकुटरुपात्रीद्वयमेक्षणप्राशिवहरण- प्रणीताप्रणयनप्राकृतेडापात्रातदोहपात्रामिक्षोद्धरणात्रवाजिनोद्धरणपात्रधानार्थपात्र- करमार्थपात्रलानार्थपात्रभर्ननार्थमेशगमदन्तीपात्रचतुर्धाकरणपात्रपिष्टलेपफलीकरणपा- त्राणीत्येतानि । फ्याग्निहोत्रणीनुवजुहूपद्धृवाज्यस्थाल्युपवेषाः पाशुका एव । वेदस्य प्रयुक्तस्यापि पशुपुरोडाशे पुनःप्रयोगविधानदर्शनानापि प्रयोगः । पशुपु. रोडाशविषयत्वाद्विधानस्य तत्रैव प्रवृत्तिात्रेत्याग्रहे न वेदप्रयोगः । पवित्रे कृत्वा यन- मान वाचं यच्छेति संप्रेष्यति वाग्यतः पात्राणि संशतीति पशुसूत्रात् । पशौ प्रणी- तानामभावेनात्र प्रसङ्गत उपकाराभावात्प्रणीताप्रणयनं भवत्येव । सवनीयानां मान- नप्रभृतीनि कर्माणि प्रतिपद्यते यथा निरूढ पशुबन्ध इति वक्ष्यमाणपशुबन्धातिदेशेन मार्ननपिष्टलेपफलोकरणहोमकपालविमोचनवदेतेषामपि प्रापितत्वाच्च सबनीयार्थ प्रणीता- भेदस्याऽऽवश्यकत्वात् । न चैतद्भिन्नविषयकमेतदिति वाच्यम् । संकोचे प्रमाणाभावात् । अथवा यदि प्रणीता न विद्येरन्याः काश्चन यजुषोत्पूय ताभिः संयोतीत्यापदर्थवाद इति सूत्रादन प्रणीताभाव एव । कोऽस्य विषय इति चेटुच्यते-प्रणीतानिषेधेन क्त्वाप्रत्यय- बोधिताव्यवहितत्वेन च प्रणीतारहितानि यानि प्रसङ्गेन प्रणीतासापेक्षाणि कर्माणि यथा सौमिकेषु पशुषु सवनीया देविका देवसूहवींषीत्यादीनि तान्येतस्य विषयः । आपच्छब्देन संकटविषय एतत्प्रवर्तते न प्रणीतासमकक्षत्वेन सर्वत्र । नन्वनेनैव मूत्रेणावभृधवैश्वा- नरीयादावपि निषेधेनैव सेत्स्यति सति तत्र तत्र यनुरुत्पुतामिः संयोतीति वचनं व्यमिति चेत्सत्यम् । अपूर्वत्वेन तत्र तत्रापातेवारणार्थ तस्य वचनस्यावश्यमोति.