पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७० - सत्याषाढविरचितं श्रौतसूत्रं- [ ८अष्टमनने- तोरामयणस्योक्थ्यस्य ध्रुवस्य च क्रमेणैतैर्दशभिर्मन्त्रैर्यथालिङ्गं प्रयोग इत्यर्थः । अस्य- न्ता मन्त्राः सर्वे । अवशिष्टानि ऋतुपात्रादीने तेषां कस्त्वेत्ययं मन्त्रः । तत्र सर्वपात्र प्रयोगक्रममाह-

दक्षिणेऽꣳस उपाꣳश्वन्तर्यामयोः पात्रे दक्षिणमुपाꣳशोरुत्तरमन्तर्यामस्य ।

उपाश्शश्चान्तर्यामश्वोपावन्तर्यामौ । तयोरुपाश्वन्तर्यामयोः, उपांश्चन्तर्या- मसंज्ञयोग्रयोः । दक्षिण उपाशोरुत्तरेऽन्तर्यामस्येत्येवं वचनं परित्यज्य दक्षिणमुत्तर- मित्येवं वचनं पूर्वमेव चिह्नकरणार्थम् । दक्षिणमुपांशोरुत्तरमन्त-मस्येत्यनेन प्रास- स्थता व्यावयते।

अपि वा पूर्वमुपाꣳशोरपरमन्तर्यामस्य ।

पूर्व पूर्वदिग्गतम् । अपरमपरदिग्गतम् । तेन प्रत्यक्संस्थता भवति । अभिर्देवता गायत्री छन्दः सोमो देवता त्रिष्टप्छन्द इति क्रमेण द्वयोर्मन्त्रौ ।

ते अन्तरेण व्यानाय त्वेत्युपाꣳशुसवनं ग्रावाणꣳ सꣳसृष्टमुपाꣳशुपात्रेण प्रयुनक्ति ।

ते इत्यत्र द्वितीयाऽन्तरान्तरेणयुक्त इति सूत्रेण । ते उपांश्चन्तामयोः पात्रे अन्तरेण तयोः पात्रयोर्मध्य इत्यर्थः । उपांशुरुषांशुग्रहार्थः सोमः सूयते कण्डयते येन स उपांशुसवनस्तं ग्रावाणमुपांशुपात्रेण संस्पृष्टं प्रयुनक्ति व्यानाय स्वेत्यनेन मन्त्रेण । उपांशुप्तवन इति पृथगन्वर्थसंज्ञाकरणामिन्न एवार्य मावा । अत एकोपरे ग्राणः संमुखान्कृत्वा प्रोक्षतीत्यत्र नैतस्य प्रोक्षणम् । उपांशुप्तवनत्वादेवोपांशुपा- त्रमात्रसंस्पृष्टता नान्तर्यामपात्रसंस्पृष्टता । पात्रयोः प्रत्यक्संस्थत्वेऽपि उत्तराम एवो. पांशसवनः । तथा चाऽऽपस्तम्बः- -बृहन्नसीति ते अन्तरेण ग्रावाणमुपांशुसवनं दक्षि- णामुख सस्पृष्टं पात्राभ्यामिति । उपांशुपात्रेण संस्पृष्टमित्येकेनैव पात्रेण सह संस्प- शस्य विधानास्पात्रद्वयसंस्पर्श आपस्तम्बोक्तो निवारितो भवति । अग्रकल्पना तु पूर्व- तु वदेव द्रष्टव्या।

प्रत्यञ्चि द्विदेवत्यपात्राणि परिस्रगैन्द्रवायवस्याऽऽजगावन्मैत्रावरुणस्य द्विस्रक्त्याश्विनस्य ।

प्रत्याचे प्रत्यक्संस्थानि । पात्रयोरुतसंस्थत्व उपांशुप्तवनमपरेण पात्रयोः प्राक्त- स्थत्वेऽन्तर्यानपात्रमपरेण पात्र योरुदक्संस्थत्वेऽन्तर्यामपात्रोत्तरत आरभ्य पात्रयोः प्राक्संस्थत्व उपांशुसवनोत्तरत आरभ्य प्रत्यञ्चि द्विदेवत्य पात्राणि प्रयुनक्तीत्यर्थः । अनि- यम स्थानस्य दर्शयितुमेव वक्ष्यमाणतुपात्रप्रयोगवदपरशब्दो नोपात्तः। युक्तं चैतदपरश-