पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
-

७५६ सत्याषाढविरचितं श्रौतसूत्र- [७सप्तमप्रमे रम्भः कार्यः । आपस्तम्बेन स्पष्टं वसतीवरीग्रहणोत्तरमेव पशुपुरोडाशतन्त्रारम्भ उक्तः । एवं पञ्चधाविमागपक्षेऽपि ज्ञेयम् । पशुपुरोडाशाद्यर्थहविर्निपिस्तु प्रकृतशालायामनोन्तर एव न तु हविर्धानाख्ययोः शकटयोः प्रवर्तने कृते निर्वापः प्रसङ्गात्तत्रैव कार्यः । अपरेण गार्हपत्यं निर्वपतीति प्राकृतदेशस्य हविर्धानाम्यामसिद्धेः। अनसोऽधिनिर्वपतीति विधिस्तु मनोन्तर उपात्तेऽपि सिध्यति । नच मन्त्रवन्महावेद्यामवस्थापितयोहविर्धानयोः पत्नी शालायां नयनमस्त्विति वाच्यम् । अनोन्तरोपादाने बाधकामावात्तेनैव निर्वाहे मन्त्रवन्महा- वेद्यां स्थापितयोनयनस्यायोगादिति द्रष्टव्यम् । तथा च द्वादशाध्याये प्रथमे पादे जैमिनिः-- हविर्धाने निर्वपणार्थ साधयेतां प्रयुक्तस्वात्, असिद्धिर्वाऽन्यदेशस्यात् । प्रधानधैगुण्या- दवैगुण्ये प्रसङ्गः स्यात्, अनसां च दर्शनादिति त्रिभिः सूत्रैराह । हविः सोमरसात्मक धीयते स्थाप्यते ययोस्ते शकटे हविर्धाने ते एव निर्वपणार्थ निर्वपणरूपं कार्य साध- येतां संपादयेतां तयोः सोमकर्मार्थ प्रयुक्तस्वात्प्रयुक्तपरित्यागे कारणाभावादिति । नच निर्वपणकार्यस्यानसोऽधिनिर्वपतीति श्रुत्याऽनो(नउ)पादानकत्वाद्धविर्धानयोनिर्वापेऽनो- (नउ)पादानकत्वाभावान्निर्वपणकार्यस्य विगुणत्वापत्तिरिति वाच्यम् । हविर्धानयोर- प्यनोरूपत्वेनानस्त्वस्य तयोरपि सत्त्वेनानस्त्वाकारेणैवाङ्गत्वाद्धविर्धानयोनिवर्वापेन च निर्वापस्य सिध्याऽनो(नउ)पादानकस्वामावाभावेन विगुणत्वापत्त्यमावात् । अङ्गे प्रयुक्त तद्गुणार्थं पुनरङ्गप्रयोगस्यायुक्तत्वाद्वेदिप्रसङ्गस्थले परिमाणहानिवदिह गार्हपत्यपा- श्वात्यलक्षणहानिर्न दोष इति भावः । अयं प्रथमसूत्रार्थः । अन्यदेशत्वाद्भिन्नदेशत्वा- निर्वपणकार्यस्य सिद्धिः । हविर्धानमण्डपे हि हविर्धाने प्रकृतिप्राप्तनिर्वापदेशस्तु अप- रेण गार्हपत्यं हविर्धाननिर्वपणयोरेकदेशत्वासंभवान्न हविर्धानाभ्यां प्राकृतनिर्वपणकार्य- स्यासिद्धिः । अनसोऽधिनिर्वपतीति विधिस्तु अनोन्तर उपात्तेऽपि सिध्यति । नच मन्त्रवन्महावेद्यामवस्थापितयोर्हविर्धानयोः पत्नीशालायां नयनमस्त्विति वाच्यम् । भनोन्तरोपादाने वाधकामावात्तेनैव निर्वाहे मनवन्महावेधां स्थापितयोनयनायोगात् । इष्टापत्तो सोमार्थ पूर्व प्राची प्रेतमध्वरमिति मन्त्रेण कृत हविर्धानप्रवर्तनमत्र रमेथामिति मन्त्रेण कृतं स्थापनं चानर्थकं स्यात् । पुनः प्रवर्तनस्थापनयोरनुष्ठाने त्वावृत्तिरशास्त्रीया स्यादिति सर्वथा प्रधानभूतः सोमो विगुणः स्यात् । तद्वैगुण्यादवैगुण्यप्रसङ्गो भवेत् । नहि प्रधानवैगुण्यादवैगुण्यं कुत्रापि दृष्टम् । अतो नयनं नैव युक्तम् । वैगुण्यप्रसङ्ग इत्यत्र प्रसङ्गशब्देनाऽऽपत्तिरुच्यते ।

अस्तमिते संवादप्रभृतिना पशुतन्त्रेण प्रतिपद्यते ।

अस्तमदर्शनमिते गते सूर्ये सतीत्यर्थः । अनेन तत्पूर्वकालो व्यावय॑ते । अस्तमि- तात्पूर्व संवादप्रमृति नैव भवति किंतूत्तरमेवेति । तेन पशुपुरोडाशयागोत्तरं दिनावशेषे विराम एव कर्तव्यः । अस्तोत्तरं पशुपुरोडाशयागविलम्बवशात्पतितेऽपि न दोष इति