पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। <अ०पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ७४७ वार्धाणसं तु तं प्राहुनयेद्यज्ञकर्मणि वर्जयेद्यज्ञकर्मणीति ॥

प्रवरं प्रवृत्याऽऽश्रावमृतुप्रैषादिभिः सौमिकानृत्विजो वृणीते ।

प्रवरं प्रवृत्य प्राकृतं प्रवरं प्रवृत्य । प्रवरं प्रवृत्येति पूर्वकविधिप्रदर्शमायानुवादः । तेनोपाकृत्य पञ्च जुहोतीत्यादि कर्म सिद्धं भवति । सौमिकविवरणरूां विशेष विधातुमप्यपमनुवादः । प्राकृतं देवं मानुषं च वरणं कृत्वेति प्रवरं प्रवृत्येत्यस्यार्थः । आश्राव्याऽऽश्राव्येत्याश्रावम् । आभीक्ष्ण्येऽयं णमुल । तेन प्रतिवरणमाश्रावगासद्धिः । आमीक्ष्ण्यं पौनःपुन्यम् । आश्रावणसंबद्धत्वात्प्रत्याश्रावणमपि प्रतिवरणम् । बौधायनः स्पष्टमेवाऽऽश्रावणं प्रत्याश्रावणं च प्रत्येकं पठितवान्-प्रसिद्ध होतारं वृणोतेऽ. थाऽऽश्रावयत्योश्रावयास्तु श्रापमित्रावरुणौ - प्रशास्तारौ प्रशास्त्रादित्यसौ मानुष इति मैत्रावरुणस्य नाम गृह्णात्यथाऽऽश्रावयत्योश्रावयास्तु श्रौषडिन्द्रो ब्रह्मा ब्राह्म- णादित्यसौ मानुष इति ब्राह्मणाच्छतिनो नाम गृह्णातीत्यादिना संपृश्चानावसंपृञ्चानौ तन्त्र इत्यन्तेन सूत्रेण । ऋतुग्रहार्थमृतुपड़वन्तश्च प्रैषास्ते च मैत्रावरुणेन पठिष्यमाणास्तेषा- मादय ऋतुप्रैषादयस्तैतुप्रैषादिमितुप्रैषप्रतीकरित्यर्थः । सौमिकान्सौमस्येमे सौमिका : सोमसंबन्धिन एतानृविन अतुयाजिनो होत्रादीन्वक्ष्यमाणान्वृणीत इत्यर्थः । अत्रर्तु. शब्द अतुग्रहपरः। तान्यजन्तीत्यत्विजः । ऋतुग्रहयाजिनोऽत्रविनो विवक्षिता इत्यर्थः । प्रकरणादर्थाच्चतेषां सौमिकत्वे सिद्ध इदं वचनं यो होता सोऽध्वर्युः स पोता य उद्गाता स नेष्टा सोऽच्छावाको यो मैत्रावरुणः स ब्रह्मा स प्रतिहर्ता यः प्रस्तोता स ब्राह्मणाच्छ५सी स प्रावस्तुद्यः प्रतिप्रस्थाता सोऽग्नीत्स उन्नेता गृहपतिगृहपतिः सुब्रह्मण्यः सुब्रह्मण्य इति कुण्डपायिनामयनप्रकरणस्थेन सूत्रेणैकस्याने कर्मकर्तृत्वेनानेकर्तुयानित्वेऽप्येकेनैव वरणसिद्धिरेकव्यक्तिकत्वादिति शङ्कां वारयितुं सौमिकानिति व्यक्त्यमेदेऽपि सोमसं. बन्धिकर्तृत्वमुपादाय प्रत्युतुयाज्येव वरणमिति सौमिकमेवेदं वरमं नतु पाशुकमिति. ज्ञापनार्थ च । एतेन स्वतन्त्रपशुष्प्यग्नीषोमीयविकारत्वमपि ज्ञायते । अग्नीषोमायविका. रत्वसत्त एवाग्नीषोमीयपशुतो होत्राग्नीध्राध्वर्युपतिप्रस्थातृमैत्रावरुणयनमानानामेव पाशु. ककर्मणि संभवेन तेषामेव वरणप्रप्तक्तो तन्निवृत्त्यर्थत्वेनैव सौमिकानित्य॒त्विविशेषणस्य सार्थक्यं संभवति नान्यथा । ब्राह्मणाच्छंसिपोतृनेष्ट गामसंभव एव पाशुके कर्मणि । अतस्तेषामप्रसक्तिरेव । एवं च स्वतन्त्रेषु काम्येषु चतुरक्षरनामवद्देवत्येषु तथाभूतेषु सवनीयेषु अनुबन्ध्यायां चाग्नीषोमीयातिदेशोऽपि पक्षे भवतीति सिद्धं भवति । आश्रावमृतुप्रैषादिभिः सौमिकाऋत्विनो वृणीत इति सामान्यप्रतिज्ञा तत्र कथमि. त्याकाङ्क्षा यामाह. -