पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचितं श्रौतसूत्र- [सप्तमप्र-ने- मेषोमप्रणयनमारभ्यैव नत्वन्वाधानमारम्येत्येतादृशार्थाङ्गीकारे शालामुखीयस्य गाई- पत्यत्वेनान्याधानमेव न स्यात्, गार्हपत्यत्वस्यैवाभावात् । इष्टापत्तौ तु प्रकृतकर्मण्यनु- पयुक्तस्य शालामुखीयस्यान्वाधानाभावश्चाऽऽपयेत । अत्रापीष्टापत्तौ शालामुखीययोने- रामोधीयस्यामेरप्यूपयोगसत्त्वेन तस्यानन्याहिततापत्तिरित्येवं महान्विलन आपद्येत । मतो हेतुपरत्वमेवेतस्य युक्तमिति सुस्थम् । आइयनीय भानाधीयभागे विद्यमानेऽपि तदानोमेव गार्हपत्यादृष्टसंक्रमणात्तत्र कोपपत्तिर्यपाऽऽपस्तम्बीयैः कृता तथाऽ. स्माभिरपि कर्तव्या । एतेन सोमसंबन्ध्यभिप्रणयनप्रकरणस्य एष सोमस्याऽऽहवनीयो यतः प्रणीयते स गार्हपत्य इत्यापस्तम्बसूत्रे, सत्यापादभरद्वाजयोस्तु मतादाग्नीधप्रणय- नात्परत एव तत्र गाईपत्यकर्माणीति द्रष्टव्यमिति सत्यापादभरद्वाजसूत्राशयमज्ञा. स्वाऽऽपस्तम्बसूत्रविरुद्धमर्थ वर्णयन्तो धतरामाण्डाररुद्रदत्ताः परास्ताः ।

समपिव्रतान्ह्वयध्वमिति संप्रेष्यति ।

परिकर्मिण ऋखिनो वाऽत्र प्रेष्याः । अपि समुचितं सपिण्डसहकृतं ब्रतमेकपाक- संभोजन येषां ज्ञातीनां तान् । अथवाऽपिशब्दस्तुल्यत्वार्थकस्तुल्यमेकपाकाशित्वरूप व्रतं येषां तानिति । संवयध्वमायतेति प्रैषार्थः । परपस्यायनार्थत्वादुबै स्त्वम् । उप. सर्गस्य क्रियायामन्वयः । व्यवहिताश्चेति सूत्रादुपसर्गक्रिययोर्मध्ये पदान्तरन्यवधानं न विरुष्यते । एतस्य प्रेषस्य शाखान्तरीयत्वाच्छन्दस्त्वमस्त्येव ।

तꣳ ह्वयन्ते यजमानस्यामात्यान् ।

सहयन्त आवयन्ति यजमानस्यामात्याज्ञातीनित्यर्थः । परिकमिण ऋखिनो वेति शेषः । नहुवचनं परिकर्दाविनामन्यतमप्राप्त्यर्थम् । सहयन्त इत्यत्र निसमुपविभ्यो ह इत्यात्मनेपदम् । अमात्या इति पाठे प्रथमा द्वितीयार्थे । ममात्यशब्द एकपाका शिसगोत्रज्ञातिपरः ।

अध्वर्युं यजमानोऽन्वारभते यजमानं पत्नी पत्नीं यजमानस्यामात्याः ।

अध्वर्यु यजमानोऽन्वारभते तं पत्नीति लच्छब्देनैव यजमानपरामर्शसिद्धौ पुनर्यजमान- ग्रहणं तच्छब्दस्य सर्वनामत्वेन बुद्धिस्थपरामशिस्वात्कदाचिदादावुपस्थित्वन मुख्यत्व- मादायाचोळवहितस्यापि तस्यैवान्यारम्म इति शङ्का दूरीकर्तुम् । यजमानं पत्नी तां यजमानस्यामात्या इत्यत्र तच्छब्देनव पल्याः परामर्शसिद्धौ पुनः पत्नीपदोपादान- भनेकपत्नीसत्त्वे सर्वासामप्यन्यारम्भार्थम् । अन्यथा तच्छन्दस्य प्रधानपरामर्शित्वमादाय ज्येष्ठया न विनेतरा इतिशास्त्रात्परायं कर्म कर्तव्य ज्येष्ठयेव न चान्ययेति शास्त्राच ज्येष्ठाया एवं प्रधानत्वेन तस्या एवान्वारम्भः स्यात्स मा मूर्तिकंतु सर्वा अध्यत्रान्वार- 2 १.ज.म मायाः।