पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६६ सत्यापाढविरचितं श्रौतसूत्र- [सप्तमप्रमे- पन्युदानयनप्रकारमाह-

प्रैतु ब्रह्मणस्पत्नीति नेष्टा पत्नीमुदानयति ।

परिकर्मिभिः साकं नेष्टाऽपि पत्नीमुत्याच्याऽऽनयति वैसर्जनहोमा शालामुखीयं प्रति प्रेतु ब्रह्मणस्पनीति मन्त्रेणत्यर्थः । उत्थाप्येत्ययमर्थ उच्छब्दालभ्यते । उत्था- प्येत्यनेन यदि तिष्ठन्ती तदा तामुपवेश्योत्स्थाप्यवाऽऽनेया नतु तादृश्येवाऽऽनेयेति बोध्यते । निपाता भनेकाका इति शास्त्रात् । उच्छब्दः शनरित्यर्थे वा । वर्णेन सीदस्विति मन्त्रान्तः ।

अथाहमनुकामिनीत्यानीयमाना जपति ।

आनीयमाना नेठा परिकर्मिभिश्च । पत्नीविशेषणमेतत् । विशा इहेति मन्त्रान्तः ।

सुप्रजसस्त्वा वयमित्यपरेण शालामुखीयमुपविश्य दार्शपौर्णमासिकान्मन्त्राञ्जपति ।

शाजामुखीयस्यापरमागे समीप एवोपविश्य दर्शपूर्णमासयोर्भवा दार्शपौर्णमासिका. स्तान्मन्त्रानमे गृहपत इत्यादीजपति । पत्नीत्यनुवर्तते । मध्यात्मादेष्ठभिष्यत इत्यनेन ठन् । अनुशतिकादित्वादुमयपवृद्धिः । नपतीत्यनेनोपस्थानादीनिवर्त्य तस्थाने जपोऽनेन विधीयते । मुप्रजासत्वा मम पुत्रा इत्यनयोस्तु स्वमावतो नप एव ।

शालामुखीयं गार्हपत्यकर्मभ्योऽन्ववस्यन्ति तस्मिन्गार्हपत्यकर्माणि क्रियन्ते ।

शालाया मुखं शालामुखं प्राग्वंशस्य पूर्वो भागः । तत्र भवः शालामुखीयो गृह- पतिर्यजमानस्तेन संयुक्तोऽग्निर्हपत्यः । गृहपतिसंयुक्तत्वं तदुत्पादितत्वेन । अतिप्रस; अपरिहारार्थ लादेरपिस्वी कर्तव्या । गाईपत्यस्य कर्माणि गार्हपत्यकर्माणि. तेम्यो गाई पत्यकर्मभ्यो गार्हपत्यकर्मार्थमन्ववस्यन्ति श्रुतयो यतः । तो यानि गार्हपत्यक- मर्माणि सर्वाणि तानि तस्मिशालामुखीये क्रियन्त इत्यर्थः । प्रथमतः प्राग्वंशरूपाया एवं शालायाः सिद्धत्वात्तन्मुखभवस्य प्राकृताहवनीयस्यैव शालामुखीयत्वम् ।कृत्स्नायाः शालाया असिद्धत्वात्तन्मुखभवस्यापि भोत्तरवेदिकस्य न शालामुखीयत्वम् यद्योत्तरवेदिकस्य शालामुखीयत्वं स्यात्तदा प्राचो गच्छन्तीत्येतद्विरुध्येत । तस्मात्प्राक- ताहवनीय एव शालामुखीयत्वम् । अत एव हविर्धानप्रणयने युझते मन इत्याहुत्यधि- करणीभूतस्यामेरौत्तरवेदिकशब्देनैव ग्रहणं कृतं नतु शालामुखीयशब्देन । अथवाऽय: मर्थः-शालामुखीयं शालामुखीयसंज्ञकं प्राकृताहवनीयं गार्हपत्यकर्थिमन्ववस्यन्ति कल्पयन्ति कर्तार इति शेष इति । द्विविधोऽत्र नियमः-शालामुखीयमेव गाईपस्य- कर्मभ्योऽन्वयस्यन्ति मत पुराणगाईपत्यमिति, उत्तरनियमेनाऽऽहवनीयकर्माणि पाव: