पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(म०पटनः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ७३१ वश्यकत्वात् । यतोऽङ्गभूतः पशुरतः षड्ढोतृपश्चिष्टयोनिषेधो नतु केवलाग्नीषोमीयप्र. युक्तोऽयं निषेध इति । तेन सवनीयादिषु पशुष्वपि षड्ढोतृपश्विष्टयभावः सिध्यति । एकवचनं चोपपन्नं भवति । जात्यभिप्राय वैकवचनम् । तथा चाऽऽपस्तम्बः-षड्ढोता पश्चिष्टिश्चाङ्गभूतेषु न विद्यते इति ।

अग्नीनन्वाधायाऽऽतिथ्यापरिधीनिध्म उपसंनह्यति ।

अग्न्यन्वाधानवचनं सूत्रान्तरोताग्न्यन्वाधानप्रतिषेधनिराकरणाम् । अग्नीनन्वाधा- येति पप्प्रत्ययोऽग्नीषोमीयस्य पशोस्तन्त्रं प्रक्रमयति प्लसशाखामातिथ्यावाद प्युपसनद्य. तीति भरद्वानेन सानास्यविकारत्वाच्छाखाहरणमुक्तं तन्मा भूदित्येतदर्थम् । द्रवद्रव्यं हि शाखया शोधनीयं न मां कर्मण्यविद्यमाने सहधर्मद्रव्यं निवर्तत इत्युक्तस्वादिति भावः। आतिथ्यावहिष एवाग्नीषोमायकार्यकारित्वस्योक्तवादीद्वहिराहरणं निवर्तते । उत्क- रार्थं बर्हिन्तु सत्यादिवस एवाऽऽहरणीयम् । प्रस्तरमेवाऽऽहरति वर्हिषः कोनेति- वक्ष्यमाणसूत्रगतैवकारव्यवच्छेद्यं वेद्यर्थबहिरेव । अत्रान्वाधेया अग्नय औतरवेदिकशा- लामुखीयदक्षिणाग्नयः सभ्यावसथ्याक्षे तावप्यन्वाधेयौ । प्राजहितस्य नैवान्वाधानं किंतु शालामुखीयस्यैव । एषोऽत्राऽऽहवनीयो यतः प्रणीयते स गार्हपत्य इति पशुसूत्रेण प्रकृतावनीयस्यैव गार्हपत्यत्वोक्त्या पुराणगार्हपत्यस्य निवृत्तेरुक्तत्वात् । अत्रेति शब्देन तस्मिन्नेव कर्मणि स गार्हपत्यो न तदन्तःपतिताग्निहोत्रहोमे । शालामुखीयं गाईपत्यकर्मभ्योऽववस्यन्ति तस्मिन्गार्हपत्यकर्माणि क्रियन्त इति वक्ष्यमाणसूत्रेऽप्य. प्रेति शब्दो योज्यः । अन्यथा कुण्डपायिनामयने मासमग्निहोत्रं जुहोतीति विहितेऽमि. होत्रहोमेऽपि ज्योतिष्टोमावादशाहं द्वादशाहाद्वामयनं गवामयनात्कुण्डपायिनामय- नमित्येवंरूपचोदकपरम्परया प्राप्ते शालामुखीय एव श्रपणं स्यात् । यद्यपि दर्षि होमेऽस्मिन्स्वतश्चोदकाच्छालामुखीयस्य प्राप्त्यभावस्तथाऽपि कुण्डपायिनामयने शाला- मुखीयस्य चोदकात्प्राप्त्या तरङ्गभूतदपिहोमहविःश्रपणेऽप्यस्ति तत्पातिरिति द्रष्टव्यम्। अतोऽत्रेत्येवमवश्यं वक्तव्यम् । तथा चात्रेति शब्देन कुण्डपायिनामयनान्तर्गते नामा. तिदेशप्राप्तभुरुषगार्हपत्यश्रपणवत्कर्मण्यग्निहोत्रेति । तथा च द्वादशाध्याये प्रथमे पादेऽमुमर्थमाह श्रपणं चाग्निहोत्रस्य शालामुखीये न स्यात्माजहितस्य विद्यमानत्वादि- त्यनेन सूत्रेण । नामप्राप्तेन प्रानहितेनान्यार्थस्य शालामुखीयस्य बाधो युक्त इति भावः । सूत्रार्थस्तु स्पष्ट एव । यद्यपि नाम्नः प्रावस्यं साप्तमिकन्यायेनैव सिद्धं तथाऽपि प्रसङ्गनिराकरणार्थ सूत्रमिदमिति द्रष्टव्यम् । नषोऽत्राऽऽहवनीयो यतः प्रणीयते स गार्हपत्य इति सामान्यसूत्र शालामुखीय गाईपत्यकर्मभ्योऽन्ववस्यन्ति तस्मिन्गार्हपत्य- कर्माणि क्रियन्त इति विशेषसूत्रेण बाध्यते, एवं च शालामुखीयमाजहितदक्षिणाग्नौनामे- वावाधानमत्रेति वाच्यम् । एषोऽत्राऽऽहवनीयो यतः प्रणीयते स गार्हपत्य इति सूत्रस्थे- नात्रेति शब्देन पाशुकर्मण्येव प्रवृत्तक्त्या सौमिककर्मण्येतस्याप्राप्तौ तत्रापि प्राप्त्यर्थ-