पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७०५ १५०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् ।

इदमेनमधरं करोमीत्युपरवबिलेऽववाधते ।

उपरवबिलसमीपवर्तिसमन्तप्रदेशेऽवबाधतेऽवनतो भूत्वा हस्तेन निपाडयतीत्यर्थः । भरातीयतीत्यन्तो मन्त्रः।

निरस्तो वलग इति हरति ।

उगुप्तदेशाद्धरति पात्रेण ।

अवबाढो दुरस्युरिति यत्र खरं करिष्यन्भवति तस्मिन्देशे निवपति ।

स्वरः सोमसंबन्धिपात्रासादनार्थश्चतुरश्रोऽर्थसिद्धपरिमाणश्चत्वरः । निवपनं प्रक्षेपणम् ।

गायत्रेण छन्दसाऽवबाढो वलग इत्युपरवबिलेऽभ्र्या निगृह्णाति ।

दायायमभ्या नितरां गृह्णाति संहन्तीत्यर्थः ।

एवमितरेषु ।

उपरवेष्विति शेषः । एवं खननादिरभ्या निग्रहणान्तो विधिरितरेषपरवेष्वपि भवतीत्यर्थः । तत्र विशेषमाह-.

उत्तरेणोत्तरेण मन्त्रेण बाहुमुपावहरत्युत्तरेणोत्तरेण च छन्दसा निगृह्णाति ।

सम्राडसीत्ययं मन्त्रः पूर्वस्मादत्तरस्तेन द्वितीये बाहुमुपावहरति । स्वराउसीत्ययं मन्त्रः सम्रासीत्येतस्मादुत्तरस्तेन तृतीये बाहुमुपावहरति । विश्वाराडसीत्ययं मन्त्रः स्वराडसी. 1 स्येतस्मादुत्तरस्तेन चतुर्थे बाहुमुपावहरति । इदमुपलक्षणं वाहू वेत्यस्य पक्षस्य । भ्रातृ. व्यहा, अभिमातिहा, विश्वासां नाष्ट्राणार हन्तेति मन्त्रत्रयान्ताः कमेण ज्ञेयाः । उत्तरेणोत्तरेण च छन्दसा निगृह्णातीत्युक्तं तत्र स्वशाखायां गायत्रच्छन्दस एवाऽऽन्नानादुत्तरं छन्दः किं कि ग्राह्यमित्याकाङ्क्षायामाह --

गायत्रं त्रैष्टुभं जागतमानुष्टुभमित्याम्नातानि छन्दांसि ।

मवन्तीति शेषः । आम्नातानि शाखान्तरे । शाखान्तरे चत्वार्यान्नातानि नत केवलं गायत्रमेव च्छन्दः स्वशाखायामिवाऽऽनातम् । अत्र गायत्रग्रहणं शाखान्तरामिप्रायेण । अथवा गायत्रेणैव केवलेन सर्वेषां निग्रहणमित्ययमपि पक्षोऽस्तीति ज्ञापनार्थम् । तथा- चाऽऽपस्तम्बः-प्रथमं वा सर्वेष्विति । प्रथम गायत्रं छन्दः ।

विराङसीति पूर्वयोर्दक्षिणं यजमानोऽवमृशति सम्राडसीत्यपरयोरुत्तरमध्वर्युः ।

परस्परव्यावृत्त्यर्थमुपयोहणम् । पूर्वयोर्दक्षिण आग्नेयीस्थोपरवः । अव, उपरवायो