पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्र-- .[ सप्तमप्रश्न विकृतिभूता उध्यादयो न मन्ति । प्रथमयजत्वं तु मुख्याग्निष्टोपस्यैव । वचनादति- तु रात्रस्यापि । न तूक्थ्यादीनामग्निष्टोमातिरात्रिपूर्वमावित्वमिति । उत्तरभावित्वं त्वमि- ष्टोमन एव नातिरात्रादिति ज्ञेयम् । अग्निष्टोमोऽत्यग्निष्टोमा उक्थ्यः षोडशी वाजपेयोऽ. तिरात्रोऽतोर्याम इति सप्त सोमयज्ञसंस्था इति गौतमेन संस्कारमध्ये गणनात्, अष्टाच- स्वारिंशसंस्कारैः संस्कृतो ब्रह्मणः सायुज्यमामोतीति वचनात् , अकरणे प्रत्यवायश्रव- णाच्च सप्तापि सोमयज्ञसंस्था नित्या इति केचित्प्राइः । अस्मिन्सूत्रे योगविभागः- कार्यः । तेन वसन्त इत्येकं सूत्रम् । यतेत्युत्तरस्मादपकृष्यतेऽत्र । तेन नित्यनाग्नि- टोमेन वसन्ते यनेतेति तदर्थः । वरन्ते यनेतेति मिन्नं सूत्रम् । अस्मिन्सूत्रे पूर्वतनं कृत्सं सूत्रमाकृष्यते । तेन नित्येनाग्निष्टोमेन वसनो वसन्ते यनोत्यर्थों भवति । पूर्व- सूत्रेण नित्यस्य सकृत्प्रयोगो वसन्ते कर्तव्यत्वेन विधीयते । उत्तरसूत्रेणाभ्यासो विधी- यते । भम्यासस्यावधेरभावाद्यावजीवत्वमर्थात् । अभ्यासस्यानित्यवे लिङ्गमध्यस्ति अपुनर्भक्षोऽस्य सोमपीयो भवतीति । अथवा तेनेत्यनेन नित्योऽग्निष्टोमः प्राप्यते । तत्र च साभ्यासो वसन्तः कालो विधीयते । अन्यत्र तु कृत्स्नोदगयनात्मकः । तदुक्तं' छन्दोगः-उदगयन आपूर्थमाणपक्षे पुण्याहे यज्ञकालोऽनादेश इति । अयमेवानिर्दिष्ट- कालानामपि कालः । सोमपूर्वाधाने सोमेन यक्ष्यमाण आदधानो नर्तुं न नक्षत्रं सूझे. दित्येकेषामित्येतत्सूत्रविहिते नहुधा विप्रतिपत्तयः । तत्र केचिदाहुः-प्रकरणाझधानका लस्यैव बाधः, सोमस्य वसन्तकालता तु नैव बाध्यत इति । अन्ये तु सोमस्यापि य ऋतुस्तमपि न सूर्तत् । तथाचोभयकालबाध इत्याहुः । परे तु उदगयन आपूर्यमाणपक्षे पुण्याहे यज्ञकालोऽनादेश इति चन्दोगसूत्रोक्तोदमयनाचाचेन सोमाभिसंविरूपकाला. न्तरविधानं सोमपूर्वाधाने । सोमे तूहगयनरपेक्ष्यत एवेत्याहुः । अपरे तु यदैवैनं यज्ञ उपनमेदिति सर्वकालानादर उक्त इति भारद्वाजसूत्रात्सर्वकालयाध उभयत्रेति प्राङ्गः । सोमेन यक्ष्यमाणोऽग्नीनाधास्ये यानि कर्माणि कर्तुं शक्ष्यामि यैश्वास्यधिकृत इति सोमपूर्वाधानं संकल्प्य पवमानेष्टयन्ते कृते प्रतिबन्धेन सोमारम्मो यदि न जायते तदा सोमारम्भपर्यन्तमारम्भधर्मरहिता गुप्त्यर्थं तूष्णी होमाः कार्याः । इष्टयारम्भोऽपि. न भवति । सोमोत्तरमग्रिमपौर्णमासेऽन्वारम्भणीयां कृत्वा पौर्णमासेष्टयादि कुर्यात् ।

तस्य नानुपक्रान्तयोर्दर्शपूर्णमासयोराहारः।

तस्याग्निष्टोमस्यानुपकान्तयोरनारब्धयोः सतोसहारः प्रयोगो नेत्यर्थः। तथा च भरद्वाजः-न दर्शपूर्णमासाभ्यामनिष्ठा सोमेन यनेनेति । वैखानप्तवाधूलावपि-दर्शपूर्ण-' मासाभ्यामिष्टा सोमेन यजेतेति । ब्राह्मणे-यो दर्शपूर्णमालाविष्का सोमेन यनते स्थस्पष्ट एवावसाने वरे देवानामवस्यतीति सोमस्य दर्शपूर्णमासोत्तरभावित्वमेव प्रस्तुतम् । शाखान्तरे ज्योतिष्टोमप्रकरण एव दर्शपूर्णमालाम्यामिष्ट्वा सोमेन य नेतेति या श्रुतिः - 1