पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्र- [सप्तमप्रश्ने- स वालधौ गृहीतस्तान्वालामुक्त्वा विवेश ह । ते वालाः काशतां प्राप्ताः कार्योऽतः प्रस्तरस्तु तैः ॥ . इति वाक्यशेषात्तु काशास्तन्मयस्तत्र लोकप्रसिद्धयपेक्षया वाक्यशेषबोधितोऽर्थ एव गृह्यते । तथा च काशानामेव ग्रहणं नत्वश्वकेशानाम् । तथाच प्रथमाध्याये. चतुर्थपादे संदिग्धेषु वाक्यशेषादिति सूत्रेणामुममाह जैमिनिः । सूत्रार्थस्तु संदिग्ध : विधार्थिवादरूपाद्वाक्यशेषात्तद्विषयकल्पनेति । उत्तरसूत्रगतकल्पनापदानुषङ्गेणान्वयो बोध्यः । यद्यपि विधावपि सामान्यरूपेण निश्चयान्न मुल्यः संदेहस्तथाऽपि घृततैलवसा- नामन्यतममञ्जनसाधनमित्यव्यवस्थितार्थप्रतीतिमादाय गौणसंदेहपरोऽयं शब्द इति व्याख्यातं व्याख्यातृभिः । ऐशवीशब्दो याज्ञिकमत इक्षुपत्रत्वगन्यतरपरः । मीमांसकमते काशमूलपरः । तेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिः स्यात् , शास्त्रस्था वा तन्निमित्त. स्वादिति न्यायोऽप्यत्र योजयितुं शक्यः। आश्चत्रालं प्रस्तरमित्येतदनन्तरमुपसंनतीत्य- नुषज्यते । विधृत्योराहरणमाश्ववालप्रस्तरेण सहैव । प्रजापतेर्वा एतानि पक्ष्माणि यदश्व- वाला ऐक्षरी तिरश्ची यहाश्ववालः प्रस्तरो भवत्यैक्षवी तिरश्ची प्रजापतेरेव तच्चक्षुः संभरतीति श्रुत्योपयोरेकरूपत्वप्रतिपादनात् । पूर्वद्युरिधमावहिः करोतीतिवाक्योक्तक- माभिप्रायेण विपरीतोक्तिः । अनुष्ठानक्रमस्तु प्रकृतिवदेव न तु चोदकप्राप्तकमवाधः । अत्र कार्यभयत्वरूपपरिधिमात्रविषयकगुणमात्रस्य प्रत्याम्नानात् । तेन खादिरः पालाश एव वेधमः । द्वाविंशतिदारुरेव च सः । अनुयानसमिदभावात् । बर्हिस्तु दर्भमयमेव । आश्ववालल्वस्य प्रस्तरमात्र एवं विधानात् । यदि समानदेशे दर्माः काशाश्च सन्ति तदैकमेवाभिमर्शनान्तं कर्म । यदि नानादेशे तदोविन्तरि. क्षमित्यादीदं देवानामित्यन्तमावर्तते । आलवाभिमर्शनस्याऽऽवृत्तिर्देशभेदात् । प्रस्त- रस्यापि बहि:शब्दाभिधेयत्वान्न काशेष्वस्य निवृत्तिः । आत्माभिमर्शनं तु सकृदे. वान्ते । शुल्ल तु दर्भाणामेव क्रियते ।

निर्वपणकाले वैष्णवं नवकपालं पत्न्या हस्तेन निर्वपति ।

यतोऽस्मिन्निवीपे बहवो विशेषा वक्ष्यमाणा अतः सावधानतार्थ निर्वपणकाल इति वचनम् । निर्वपणकाले निर्वपणस्थाने । कालशब्दस्य स्थानपरत्वं तु बोधानीय दृष्टं स उपरवाणां काल इति । निर्वपणकाल इत्यतः प्राक्परिगृहीत इति योज्यम् । पूर्ण- मासप्रथमप्रयोगे निपणस्थानं यत्परिगृहीतं तत्रेत्यर्थः । सिद्धे सत्यारम्भो नियमार्थः । तेन निर्वप्रणकाल एवेति सावधारण वाक्यं भवति । तथाचायमर्थों भवति–पूर्णमास- प्रथमप्रयोगपरिगृहीतनिपणत्थान एवार्य निर्वाप इति । एतेनान्यासु सर्वासु विकृ- तिम्वनियम इति विशिष्टार्थज्ञापनार्थ वा । न च वेदकरणादिकर्मसूचनार्थ तदिति वाच्यम् । तस्य प्रकृतित एव सिद्धेः । प्रायणीयायां त्वत्वाद्वचनम् । अग्निहोत्रह - चणीप्रत्याम्नायो हस्तः । अस्मिन्पोऽग्निहोत्रह्वगीधर्मा हस्ते कार्याः । पात्रप्रयोगका- । .