पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१प्र०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । तथा । तस्मात्सर्वत्र भावनाया एव विधायकमेव ब्राह्मणं न च ते नापेक्ष्यते । किच नहि सर्वत्र निन्दार्थवादविषयेष्वनिष्टत्वावेदकः प्रतिषेधोऽस्ति । न च निन्दया कल्प्यः। विहितेषु निषेधस्यानिष्टसाधनतावेदकस्यासमवात् । नहि 'यदिते सूर्ये प्रातर्जुहुयात् । यथाऽतिथये प्रद्रुताय शून्यायाऽऽवसथायाऽऽहार्य हरन्ति । ताहगेव तत्' इत्यादीना निन्दार्थवादानां कल्पिता अनिष्टसाधनत्वावेदकाः प्रतिषेधाः सन्ति, विहितेषु विद्यमाना या कथमनिष्टसाधनतामावेदयन्ति, येन निन्दार्थवादानामेकवाक्यता स्यात् । तदुक्तं भट्टाचार्यैः-'यद्यपि स्याद्विधिस्पृष्टे निषेधो नैव तादृशः। विज्ञायते ह्यनर्थत्वं षोडशिग्रहणादिवत् ॥ इति । तादृशान् वानर्थत्वं विज्ञायत इत्यन्वयः । तस्मानिन्दार्थवादा नान्तर्भवन्ति विध्येक- वाक्यत्वाभावादित्याशझ्याऽऽह-

निन्दा प्रशंसा ।

या निन्दा निन्दकं वाक्यं सा प्रशंसैव प्राशस्त्यसमर्पणपरैव । विधिषु प्रतिषेधेषु वा यत्किंचिनिन्दया प्रवर्तते वाक्यं तत्सर्व विधेये धर्मे प्रवृत्ते निवृत्ते वा प्राशस्त्यपरमेव । तथोक्तं शवरस्वामिभिः 'नहि निन्दा निन्द्यानिन्दितुं प्रवर्ततेऽपि तर्हि विधेयं स्तोतुम्' इति । तस्मात् 'न पृथिव्यां नान्तरिक्षे' इत्याद्यर्थवादानां सिद्धं 'हिरण्यं निधाय चेतन्यः । इत्यादिब्राह्मणैकवाक्यत्वम् । इदानी केषांचिद्वाक्यानामर्थवादत्वेन व्यवहताना स्वार्थंकनिष्ठतया विधेयकर्तृविशेष- समर्पकत्वेन व्यापकं तच्छेषत्वमित्याशझ्याऽऽह-

परकृति: पुराकल्पश्च ।

प्रशंसत्यनुवर्तते । परकृतिपुराकरुपौ प्रशंसव न विधायको कर्तृविशेषस्य । तद्यथा 'अत्रिरददादौर्वाय' 'जमदग्निः पुष्टिकामः' एवमादयः । एकेन परेणान्येन तद्भगोत्रोद्भवेन का कृतं कर्म परकृतिस्तत्प्रतिपादकानां विशिष्टानां वाक्यानां परकृतीना, तया 'अङ्गि- रसो वै सत्रमासत ' इतिप्रभृतीनामनेककर्तृकाणां पुराकल्पानां न तत्तद्गोत्रजकर्तृत्ववि वै धायकत्वं किं तु एतौ प्रशंसैव प्रशंसापरावेव । अत्र केचित्सकर्तृकमात्र परकृतिम् 'आपो वा इदमने सलिलमासीत् । इति, पुराकल्पं च कथनमात्रमाहुः । तत्र ये पुराकल्पा एव सन्ति न तत्र विधिः श्रूयते । तेषु ब्राह्मणैकवाक्यत्वं न संभवतीत्याशय पुरा- कल्पोऽपि प्रशंसा । तस्मात्तदेकवाक्यत्वाय विधिः कल्पनीयस्तेनैवैकवाक्यतेति परि- हारः । चकारेण 'त्वष्टा हतपुत्रो वन्द्रिम् ' इत्यादीनां यदग्नीषोमीयादिविधिकश्पकरवं तच्छेषत्वं प्रदर्शयति । अस्मिन्पक्षे परकृतेः प्रकारान्तरत्वेन पृथग्ग्रहणं युक्तम् । पुसकल्पग्रहणमप्रयोजक विधिकल्पकानां नानारूपाणामर्थवादानां चैतेनैव चुकारेण ग्रहणं स्यादिति । तथाऽपि नानानामभिर्व्यवहिपमाणानां पृथक्त्वाशङ्कानिवृत्त्यर्थ- वेिन सप्रयोजनतेति व्याख्येयम् । केचित्तच्छेपोऽर्थवादो निन्दा प्रशंसा परकृतिः .