पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्र- [ द्वितीयप्रश्ने-

अस्तु । सप्तर्षीणाꣳ सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेह्यों प्रणयेति प्रसौति ।

असौति पृष्टेऽनुमोदनं प्रसवः । स्पष्टम् ।

सर्वेष्वामन्त्रणेष्वोंकारेण प्रसौति ।

आगामिष्वप्यामन्त्रणेषु ओंकारपूर्वकं प्रसौत्युचितानुमोदनक्रियापदात्पूर्वमोकारमु- चार्य क्रियापदमुच्चारयति ॐ प्रोक्षेत्यादि ।

येन येन कर्मणाऽऽमन्त्रयते सर्वत्र तेन तेन प्रसौति ।

येनेति तृतीयेत्थंभावलक्षणे । येन कर्मणोपलक्षितमामन्त्रयते ब्रह्मन्प्रोक्षिण्यामीत्यादि- प्रोक्षणेन कर्मणाऽऽमन्त्रयते ब्रह्माऽपि तेन तेनैव प्रोक्षेति प्रसौतीत्यर्थः ।

ब्रह्मन्प्रोक्षिष्यामीत्युच्यमाने प्रोक्ष यज्ञमिति हविष इध्माबर्हिषश्च प्रोक्षे ।

प्रोक्षे प्रोक्षणकर्ममि । इध्माबर्हिषः प्रोक्षणेनोक्तमामन्त्रणं तदध्वर्युप्रत्ययं यस्य स्यात्तत्रैव प्रसौति'नास्मत्सूत्रानुसारेण । देवता वर्धयेत्याद्यनुषङ्गः सर्वत्र वक्ष्यते ।

ब्रह्मन्नुत्तरं परिग्राहं परिग्रहीष्यामीत्युच्यमाने बृहस्पते परिगृहाण वेदिꣳ स्वगावो देवाः सदनानि सन्तु । तस्यां बर्हिः प्रथताꣳ साध्वन्तरहिꣳ स्राणः पृथिवी देव्यस्त्वित्युत्तरस्मिन्परिग्राहे ।

अत्रापि देवता इत्यनुषङ्गः ।

ब्रह्मन्सामिधेनीरनुवक्ष्यामीत्युच्यमाने प्रजापतयेऽनुब्रूहि यज्ञमिति सामिधेनीषु ।

इदं होतृप्रत्ययं यदि स आमन्त्रयते । अत्रापि देवता इत्यनुषङ्गः ।

ब्रह्मन्प्रवरायाऽऽश्रावयिष्यामीत्युच्यमाने ।। २१ ।। वाचस्पते वाचमाश्रावयैतामा- श्रावय यज्ञं देवेषु मां मनुष्येष्विति प्रवरे ।

पूर्ववदनुषङ्गः।

देवता वर्धयेति सर्वत्रानुषजत्योमाश्रावयेति प्रसौति ।

पूर्वाक्तेष्वनुषङ्गं करोति । धेहीत्यन्ततः परमोंकारेण तत्तत्कर्मणा प्रसौत्युक्तमेव ।

मित्रस्य त्वा चक्षुषा प्रेक्ष इति प्राशित्रमवदीयमानं प्रेक्षते ।

अध्वर्युणा प्राशिवावदान आरब्ध एव प्राश्यत इति प्राशित्रं प्रकर्षेण पश्यति ।

१ घ. 'प्स कंपीणा५ । २ क. ख. ग. च. छ. ट. ठ. 'जति ।।