अथवा किं बहुना जल्पितेन ।
मम प्रतिज्ञैषा यद्यद् हृदयेनेहसे संद्रष्टुम् ।
तत्तदृर्शयाम्यहं गुरोर्मन्त्रप्रभावेण ॥ २ ॥
राजा - (राज्ञीं प्रति) देवि, बहुतरमनेन गर्जितम्। पश्यामस्तावत् ।
राज्ञी - उज्जयिनीत आगत इत्यस्ति मेऽस्मिन्नैन्द्रजालिके पक्षपातः ।
राजा - (ऐन्द्रजालिकं प्रति) भद्र, प्रस्तूयतामिन्द्रजालम्।
ऐन्द्रजा० .... यद्देव आज्ञापयति । ( इति पिच्छिकां भ्रमयन् )
हरिहरब्रह्मप्रमुखान्देवान्दर्शयामि देवराजं च ।
गगने सिद्धचारणसुरवधूसार्थे च नृत्यन्तम् ॥ ३ ॥
तत्प्रेक्षां देवः ।
राजा - (ऊर्ध्वमवलोक्य) आश्चर्यमाश्चर्यम् । देवि पश्य ।
एष ब्रह्मा सरोजे रजनिकरकलाशेखरः शंकरोऽयं
दोर्भिदैत्यान्तकोऽसौ सधनुरसिगदाचक्रचिन्हैश्चतुर्भिः ।
एषोऽप्यैरावतस्थस्त्रिदशपतिरमी देवि देवास्तथान्ये
नृत्यन्ति व्योम्नि चैताश्चलचरणरणन्नूपुरा दिव्यनार्यः॥४॥
विदू०- (अपवार्य) आः दास्याःपुत्र ऐन्द्रजालिक, किमेतैर्देवैरप्सरोभिश्च दर्शितैः । यदि तेऽनेन परितुष्टेन कार्य तत्सागरिकां दर्शय ।
वसुंधरा - ( प्रविश्य राजानं चोपसृत्य ) जयतु जयतु भर्ता । विक्रमबाहोः प्रधानामात्यो वसुभूतिरागतः । तदर्हति देवस्तं प्रेक्षितुम् ।
राज्ञी - आर्यपुत्र तिष्ठतु तावदिन्द्रजालम् । मातुलगृहात्प्रधानामात्यो वसुभूतिरागतः । तं तावत्प्रेक्षतामार्यपुत्रः ।