सभा च सा महाराज शातकुम्भमयद्रुमा ।
प्रबभौ ज्वलमानेव दिव्या दिव्येन वर्चसा ॥ १ ॥
आयता विपुला रम्या विपाप्मा विगतक्लमा ।
उत्तमद्रव्यसंपन्ना रत्नप्राकारतोरणा।
बहुचित्रा बहुधना निर्मिता विश्वकर्मणा ॥ २ ॥
तां स्म तत्र मयेनोक्ता रक्षन्ति च वहन्ति च ।
सभामष्टौ सहस्राणि किंकरा नाम राक्षसाः ॥ ३॥
तस्यां सभायां नलिनीं चकाराऽप्रतिमां मयः ।
पुष्पितैः पङ्कजैश्चित्रां कूर्मैर्मत्स्यैश्च काञ्चनैः ।
चित्रस्फटिकसोपानां निष्पङ्कसलिलां शुभाम् ॥ ४ ॥
मणिरत्नचितां तां तु केचिदभ्येत्य पार्थिवाः ।
दृष्ट्वाऽपि नाऽभ्यजानन्त तेऽज्ञानात्प्रपतन्त्युत ॥ ५ ॥
जलजानां च पद्मानां स्थलजानां च सर्वशः ।
मारुतो गन्धमादाय पाण्डवान्स्म निषेवते || ६ ||
ईदृशीं तां सभां कृत्वा मासैः परिचतुर्दशैः ।
निष्ठितां धर्मराजाय मयो राजन्न्यवेदयत् ॥ ७ ॥
|
(1)Explain the following forms :-
शांतकुम्भमय, संपन्न, अष्टौ, अभ्येत्य, आदाय, निष्ठित.
(2) Write notes on :-
नाम; उत; स्म; धर्मराजाय न्यवेदयत्.