दौपदीवस्त्रहरणम्
(प्रथमो भागः)
भ्रातुःशासनं श्रुत्वा राजपुत्रो दुःशासनः समुत्थाय पाण्डवानां वेश्म प्रविश्य राजपुत्रीं द्रौपदीमब्रवीत् । एह्येहि, पाञ्चालि,जितासि कृष्णे । विमुक्तलज्जा त्वं दुर्योधनं पश्य, कुरून् भजस्व च । इति श्रुत्वा सा दुःखार्ता समुत्थाय विवर्णं मुखं करेणामृज्य प्राद्रवद्यत्र वृद्धस्य राज्ञः स्त्रिय आसन् । ततो दुःशासनस्तां जवेनाभ्यसरत्केशेषु च नरेन्द्रपत्नीमगृह्णात् । सा द्रौपदी कृष्यमाणा शनैरवदत्। अनार्य, एकं च वासो ममातः सभां मां नेतुं नाऽर्हसीति । ततस्तां कृष्णां केशेषु प्रसभं निगृह्य दुःशासनोऽब्रवीत् । याज्ञसेनि, एकाम्बरा वा विवस्त्रा वा भव, द्यूते जिता चासि कृतासि दासी । इत्युक्त्वा तेन सा प्रकीर्णकेशी पतितार्धवस्त्रा च सभामध्ये नीता ।
( द्वितीयो भागः )
ततः कर्णेनाभिहितम् । दुःशासन, पाण्डवानां द्रौपद्याश्च वासांस्युपाहरेति । तदा सर्वे पाण्डवाः स्वानि वासांस्यवकीर्य सभायां समुपाविशन्। ततो दुःशासनो द्रौपद्या वसनं सभामध्ये व्यपाक्रष्टुं प्राक्रमत ।
आकृष्यमाणे वसने, द्रौपद्या चिन्तितो हरिः । हे गोविन्द, द्वारकावासिन्कृष्ण, कौरवैः परिभूतां मां किं न जानासि । केशव, कौरवार्णवमग्नां मामुद्धरस्व । हे विश्वभावन, पाहि मां प्रपन्नाम् । इत्यनुस्मृत्य त्रिभुवनेश्वरं कृष्णं सा भामिनी मुखमाच्छाद्य प्रारोदीत् ।
याज्ञसेन्या वचः श्रुत्वा कृष्णस्तां विविधैः सुवस्त्रैः समावृणोत् । आकृष्यमाणे द्रौपद्या वसने, वस्त्रमपरं प्रादुरासीदनेकशः । नानारागविरागाणि