वीरकः-क आर्यचारुदत्त ? का वा वसन्तसेना ?
चन्द० - अरे आर्यचारुदत्तं न जानासि ? न वा वसन्तसेनाम् ?कस्तं गुणारविन्दं न जानाति ? अस्यां नगर्य द्वावेव पूजनीयौ तिलकभूतैौ च ।
वीरकः– ओरे चन्दनक, जानामि चारुदत्तम्। सुषु जानामेिं वसन्तसेनां च । राजकार्ये तु प्रासे सति, पितरमपि न जानामि । अतस्वं अवलोकय।
चन्द०– अरे, उन्नामय धुरम् ।
आर्यकः---अपि रक्षिणो मामवलोकयन्ति? अशस्रश्चास्मि मन्दभाग्यः ।
(चन्द०–प्रवहणमारुह्यावलोकयति ।)
आर्यकः-शरणागतोऽस्मि,
चन्द० –अभयं शरणागतस्य । ( अवलोक्य ) कथं आर्यको गोपालदारकः ? तत्किमिदानीमत्र युक्तमनुष्ठातुम् ? अथवा, यद्भवतु तद्भवतु, प्रथममेवाभयं । दत्तम् । ( प्रवहणादवतीर्य ) दृष्ट आर्यः। न,आर्या वसन्तसेना ।
वीरकः–चन्दनक्र ! अत्र मे संशयः समुत्पन्नः ।
चन्द०-कथं ते संशयः ?
वीरकः---यत्त्वया भणितं दृष्टो मया खलु आर्यः पुनरपि आर्या वसन्तसेना तेन मे अप्रत्ययः ।
चन्दः-ओरे, वयं दाक्षिणात्या अव्यक्तभाषिणः ।
वीरकः–ननु अहमपि विलोकयामि । राजाज्ञा एषा ।
चन्दः–ओरे वीरक, मया चन्दनकेन प्रलोकितं, पुनरपि त्वं प्रलोकयसि, कस्त्वम् ? ।
पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/87
दिखावट
पुटमेतत् सुपुष्टितम्
७९
कलहायमानौ चन्दनकवीरकौ