राजा - अपि ज्ञायते कतमेन दिग्भागेन गतः स जाल्म इति ।
अप्सरसः - पूर्वोत्तरेण ।
राजा - तेन हि विमुच्यतां विषादः । यतिष्ये वः सखीप्रत्यानयनाय । क्व पुनम भवत्यः प्रतिपालयिष्यन्ति ।
सर्वा: - एतस्मिन्हेमकूटशिखरे । ( राजा गच्छति । सर्वा अप्सरसश्च शैलशिखरमवतरन्ति । )
रम्भा — अपि नाम स राजर्षिर्न उर्वशीं समुद्धरेत् ।
मेनका – हला, मा ते संशयो भवतु । सर्वथा विजयी भवतु सः ।
रम्भा - हला, एष खलु राजर्षिरागच्छति । नैषोऽकृतार्थो निवर्तिष्यते । ( ततः प्रविशति राजा चित्रलेखाद्वितीयामुर्वशीं गृहीत्वा )
अप्सरसः - दिष्ट्या महाराजो विजयेन वर्धते ।
राजा- - भवत्यश्च सखीसमागमेन ।
उर्वशी - हला पीडितं मां परिष्वजध्वम् । न खलु मम आशासीद् भूयोऽपि सखीजनं प्रेक्षिष्य इति ।
रम्भा --- सर्वथा महाराजः कल्पशतानि पृथिवीं पालयिता भवतु ।
EXERCISES.
(1) Explain the forms :---
भवत्यः, परित्रातव्या, उपेत्य.
(2) Write notes on :---
अलम् ; कतमेन दिग्भागेन; अपि; हला; दिष्टया वर्धते विजयेन।