पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/79

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उर्वशीविमोचनं दानवहस्तात् । ७१ राजा- अपि ज्ञायते कतमेन दिग्भागेन गतः स जाल्म इति । अप्सरसः–पूर्वोत्तरेण । राजा-तेन हेि विमुच्यतां विषादः । यतिष्ये वः सखीप्रत्यानयनाय । क पुनर्मी भवत्यः प्रतिपालयिष्यन्ति । सर्वाः–एतस्मिन्हेमकूटशिखरे । (राजा गच्छति । सर्वा अप्सरसश्च शैलशिखरमवतरिन्त ) रम्भा–अपि नाम स राजर्षिर्न उर्वशीं समुद्धरेत् । मेनका-हला, मा ते संशयो भवतु । सर्वथा विजयी भवतु सः । रम्भा–हला, एष खलु राजर्षिरागच्छति । नैषोऽकृतार्थो निवर्तिष्यते (ततः प्रविशति राजा चित्रलेखाद्वितीयामुर्वशीं गृहीत्वा ) अप्सरसः-दिष्टया महाराजो विजयेन वर्धते । राजा–भवत्यश्च सखीसमागमेन । उर्वशी-हला पीडितं मां परिष्वजध्वम् । न खलु मम आशासीद् भूयोऽपि सखीजनं प्रेक्षिष्य इति । रम्भा---सर्वथा महाराजः कल्पशतानि पृथिवीं पालयिता भवतु । (1) Explain the forms : भवत्यः , परित्रातव्या. उपेत्य (2) Write 10tes (011 : अलम्; कतमेन दिग्भागेन; अपि; हला; दिष्टया वर्धते विजयेन.