सामग्री पर जाएँ

पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/77

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९
न्यासीकृतालङ्करणभाण्डस्यापहरणम् ।

(द्वितीयो भागः )


 विदूषकः-(उत्स्वमायते ) भो वयस्य ! चौरमिव पश्यामि; तत्गृह्णातु भवान् इदं सुवर्णभाण्डम् ।

शर्वि०– अये, सत्यमेवैतदलङ्करणभाण्डम् । भवतु गृह्णामि । अथवा न युक्तं तुल्यावस्थं कुलपुत्रजनं पीडयितुम्, तद्वच्छामि । विद्०-–भो वयस्य ! शापितोऽसि गोत्राह्मणकाम्यया, यदि एतत् सुवर्णभाण्डं न गृहासि। शर्वि०–अनतिक्रमणीया गोब्राह्मणकाम्या। तद्गृह्यामि । किंतु ज्वलति प्रदीपः । भवतु, एष मुक्तो मयाग्रेयः कीटस्तन्निर्वापणार्थम् । धिक्कृतमन्धकारम्, अथवा, मयापि ब्राह्मणकुले धिक्कृतमन्धकारम् । अहं हि शर्विलको नाम ब्राह्मणो मदनिकार्थमकार्यमनुतिष्ठामि । इदानीं करोमि ब्राह्मणस्य प्रणयम् । ( गृह्णाति ) विदू०-गृहीतम् ? । शर्वेि०–अनतिक्रमणीयोऽयं ब्राह्मणप्रणयः, तद्गृहीतम् । विदू०-इदानीं सुखेन स्वपिम्यहम्। शर्वि०--महाब्राह्मण । स्वपिहि वर्षशतम् । ( इति गच्छति । )

Exercises

(1) Explain the for17s :

न्यासीकृत, स्फारीभवति, उत्स्वप्नायते ।

(2) Write notes on :

अनेन सुप्तेन भवितव्यम्; नाम; गोब्राह्मणकाम्यया शापितोऽसि ।