वृद्धा–पुत्रक, पुनरप्येतान्यक्षराणि भण ।
नायकः--किं पुनरभिहितेन । ननु कर्मणैव संपादयामि ।
वृद्धा-पुत्रक, चिरं जीव ।
नायकः---अम्ब, प्रत्यर्पय मम वध्यचिह्नम् । एतत्प्रावृत्य ते पुत्रस्य
जीवितरक्षणार्थे विनतासुताय स्वदेहमाहारयितुं यच्छामि ।
शङ्खचूडः–अहो, जगद्विपरीतमस्य महासत्वस्य चेतः। यदर्थमयं तार्क्ष्यः प्रतिदिनं नागानत्ति तानेव प्राणान्परार्थे तृणमिव त्यजति।(नायकमुद्दिश्य)भो महात्मन्, दर्शिता खलु त्वयाऽऽत्मप्राणप्रदानव्यसवायेन मयि दयालुता ।तदलं निर्बन्धेन ।
नायकः-कुमार शङ्खचूड, परहितं साधयितुं प्रयतमानं किमवरुणत्सि माम् । प्रसीद, दीयतां मे वध्यचिह्नम्।
शङ्ख--किं वृथा प्रयासेन । अथानुकम्पनीया वयं तदियं माता न
परित्यजति जीवितं तथाभ्युपायश्चिन्त्यताम् ।
नायकः—ननु चिन्तित एवोपायः । स च त्वदधीनः ।
शङ्ख- क इव ।
नायकः---यदि जीवन्तीं मातरमिच्छसि तद्रक्षात्मानं ममासुभिः ।
अयमेवोपायः । तदर्पय वध्यचिह्नम् ।
( ततः प्रविशति सह वाससा कञ्चुकी )
कैचु०-इदं रक्तांशुकयुगलं देव्या प्रेषितम् । तदेतत्परिधत्तांकुमारः ।