सामग्री पर जाएँ

पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/46

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८
संस्कृतकथासंग्रहः

राजा-- यथाह वसन्तकस्तथैवैतत् ।
वासव० - ( फलकं निर्दिश्य ) आर्यपुत्र, एषाऽपि याऽपरा तव समीप आलिखिता तत्किमार्यवसन्तकस्य नैपुण्यम् ।
राजा - देवि, अलमन्यथा शङ्कया । इयं हि कापि कन्यका स्वहृदयेनैव परिकल्प्यालिखिता । न तु पूर्वं दृष्टा ।
विदू० भवति, सत्यं सत्यम् । शपे ब्रह्मसूत्रेण यदीदृशी कदाप्यस्माभिर्दृष्टपूर्वा ।
वासव० - आर्यपुत्र, मम पुनरेतच्चित्रफलक प्रेक्षमाणायाः शीर्षवेदना समुत्पन्ना । तद्गच्छाम्यहम् | ( प्रस्थिता )

EXERCISES.

( 1 ) Explain the following sandhis :--
चित्रफलक आलिखितम् ; समीप आलिखितम् .
( 2 ) Explain the following forms:-
प्रसार्य, निरूप्य, अपवार्य, गृहीत्वा, भवति, परिकल्प्य, प्रेक्षमाणायाः, समुत्पन्ना, प्रस्थिता.

( 3 ) Write a grammatical note on :-
अल शङ्कया; शपे ब्रह्मसूत्रेण.
 हस्तौ प्रसार्य Having stretched forth hands. कक्षान्तर An arm-pit. चित्रफलक : A picture board. आलिखित Painted, drawn. आलेख्यचातुर्य Skill in drawing. शपे ब्रह्मसूत्रेण (1) swear by the sacred thread. शीर्षवेदना Headache.