पुटमेतत् सुपुष्टितम्
३६
संस्कृतकथासंग्रह:
२५. सुन्दोपसुन्दकथा ।
(द्वितीयो भागः)

सर्वेषां तद्वचः श्रुत्वा पितामहो मुहूर्तमिव विचिन्त्य विश्वकर्माणमाव्हयत्। सृज्यतां लावण्यवत्येका प्रमदेति तं समादिशत्। तेन महता प्रयत्नेन रूपेणाप्रतिमा नारी निर्मिता । पितामहस्तिलोत्तमेति तस्या नामाकरोत् । अवदच्च तिलोत्तमे, गच्छ सुन्दोपसुन्दाभ्याम्, ताभ्यामन्योन्येन यथा वैरं स्यात्तथा कुर्विति । तथेति प्रतिज्ञाय पितामहं नमस्कृत्य च सा गता । सा शनैरगच्छतं देशं यत्रास्तां तौ महासुरौ । तस्याः सौंदर्य दृष्टैव तौ व्यथितौ समभवताम् । सुन्दस्तां दक्षिणेन करेणागृह्णादुपसुन्दस्तु वामेन पाणिना । इयं मम भार्येति सुन्दोऽभ्यभाषत । ममैव सेत्युपसुन्दोऽवदत् । नैषा तव ममैषेति तौ तस्या रूपेण सम्मत्तौ गदे प्रगृह्यान्योन्यं न्यहताम् । गदाभिहतौ तौ धरणीतले न्यपतताम्।