पुटमेतत् सुपुष्टितम्

बालः—―जृम्भरव सिंह, दन्तांस्ते गणयिष्ये।
प्रथमा——अविनीत, किं नः सत्त्वानि पीडयसि । हंत,वर्धते संरम्भः। स्थाने खलु ऋषिजनेन सर्वदमन इति कृतनामधेयोऽसि।
द्वितीया तपस्विनी——एषा खलु केसरिणी तवोपद्रवं करिष्यति यदि तस्याः पुत्रकं न मुञ्चसि।
बाल:——(सस्मितम्) अहो, बलीयः खलु भीतोऽस्मि।
राजा——किं नु खलु बालेऽस्मिन् स्निह्यति मे मनः।
प्रथमा——वत्स,एनं बालमृगेन्द्रं मुश्च।अपरं क्रीडनकं तुभ्यं यच्छामि।
बाल:—— कुत्र,यच्छ मे तत्।
द्वितीया——सुव्रते, गच्छ त्वम्, मदीय उटजे मृत्तिकामयूरस्तिष्ठति तमस्योपहर।