एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४
संस्कृतकथासंग्रहः
३.अस्मत्पाठशाला ।
इयमस्मत्पाठशाला । अत्रागच्छति छात्रगणः प्रतिदिनं विद्यार्जनाय । अस्मिन् विद्यालयेऽनेकान् विषयान् विविधा भाषाश्च शिष्या आचार्येभ्यः शिक्षन्ते । शिक्षका अपि तानतिस्नेहेन शिक्षयन्ति । अस्य विद्यामंदिरस्य पुरो विस्तीर्ण प्राङ्गणमस्ति । अस्मिश्च कुमारा विश्रांतिसमये कन्दुकैः क्रीडन्ति। अस्य प्राङ्गणस्यैकदेशेऽल्पकं रमणीयमुद्यानं वर्तते । तस्मिन् वृक्षकारोपणं बालका एव कुर्वन्ति । अन्यस्मिन्प्रदेशेऽस्य प्राङ्गणस्य व्यायामशालाऽपि वर्तते । अस्यां च बाला अध्ययनानन्तरं शरीरवृद्धयर्थ व्यायामं सेवन्ते ।
छात्राः, पाठशालां प्रतिदिनं गत्वा स्वपाठान् पठत ।
Exercises
(1) Fill in the blanks:
( i ) तस्मिन् वृक्षकारोपणं – एव कुर्वन्ति ।
(ii) छात्राः, पाठशालां – स्वपाठान् –।।