अन्यत्रापि--
"सूतकात्प्राक्समारब्धमनेकाहं तु यद्व्रतम् । |
त्रिंशच्छ्लोक्याम्--
"तत्तत्कार्येषु सत्रिव्रतिनृपनृपवद्दीक्षितर्त्विक्स्वदेश- |
नाशौचमिति शेषः । पूर्वत्रोपक्रमात् । सत्र्यन्नसत्रवान् । मुख्यसत्रस्य दीक्षितपदात्सिद्धेः । व्रती, अनन्तव्रतादिनियमवान् । नृपा राजानः । नृपवन्तो नृपतुल्या राजभृत्याः । दीक्षितः संजातदीक्षः । तस्यावभृथात्पूर्वमेवाऽऽशौचाभावः । तदादि त्वाशौचमस्त्येव । 'वैतानोपासनाः कार्याः' इत्यनेनावभृथादेर्वैतानत्वेन कर्तव्यतायां प्राप्तायां--
तद्वद्गृहीतदीक्षस्य त्रैविद्यस्य महामखे । |
इतिवचनेऽवभृथात्प्राक्सूतकाभावोक्त्या तदादौ सूतकसत्त्वस्यार्थादेव सिद्धेः । 'वैतानोपासनाः कार्याः' इत्यनेनैव सिद्धे 'ऋत्विजां दीक्षितानां च' इति पुनर्दीक्षितग्रहणं याजमाने स्वयंकर्तृ[क]त्वार्थं स्नानप्राप्त्यर्थं वेति प्राञ्चः । दीक्षणीयासंस्कृतस्य प्रागवभृथात्कर्मप्राप्त्यर्थं दीक्षितग्रहणमिति नवीनाः । यत्तु 'प्रारम्भो वरणं यज्ञे' इति तदृत्विक्परम् । ऋत्विजां मधुपर्कोत्तरमाशौचाभावः । यत्र मधुपर्को नास्ति तत्र दोषोऽस्त्येव । आधानेष्टिपशुबन्धादौ मधुपर्का वैकल्पिकाः । ज्योतिष्टोमादौ नियत इति केचित् । सर्वत्रापि नियत इत्यन्ये । यत्र समन्त्रकं वरणं तत्रैव मधुपर्कः । यत्र च विधानं तत्रापीत्यपरे । श्रौते कर्मणि यजमानस्य तत्कालं स्नानाच्छुद्धिः । त्यागातिरिक्तं श्रौते स्मार्ते वाऽन्यस्यैव कर्तृत्वम् । श्रौतो होमः शुष्कान्नेन फलेन वा कार्यः । स्मार्ते त्वकृतं व्रीह्यादिकं हावयेत् । तदभावे कृताकृतं तण्डुलादि हावयेत् । श्रोते समारोपप्रत्यवरोहयोराशौचापवादाभावादनन्यकर्तृकत्वाच्चैतावाशौचे न भवतः । अन्यथा पुनराधान[१]मपि स्यादिति केचित् । एतन्मते पर्वणि समारूढेष्वग्निषु प्रत्यवरोहणेऽधिकाराभावात्पर्वणि प्रत्यवरोहणाकरणे पुनराधानस्यैवोक्तत्वात्पुनराधानमेवेति ।
- ↑ क. नप्राप्तिः स्या ।