पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[नान्दीश्राद्धप्रयोगः]
११२१
संस्काररत्नमाला ।

मह्यो नान्दी० सो० । मार्ज० प्रपितामह्यो ना० सो० । मार्ज० पितरो ना० सो० । मार्ज० पितामहा ना० सो० । मार्ज० प्रपितामहा ना० सो० । मार्ज० मातामहा [१] ना० सो० । मार्ज० मातुःपितामहा ना० सो० । मार्ज० मातुःप्रपितामहा ना० सो० । इत्येतैर्यथायथं तत्तद्रेखायां देवतीर्थेनैवोदकाञ्जलिनिनयनम् । प्रतिपिण्डं तूष्णीं[२] द्वितीयः पिण्डः । तत्तत्पिण्डसमीपे तत्तद्द्वितीयपिण्डार्थमुदकाञ्जलिदानमपि कर्तव्यम्[३] । सर्वमन्त्रेषु सपत्नीकत्वाभिध्यानमात्रं न तु तच्छब्दस्योल्लेखः । एतत्ते मातर्नान्दीमुखेऽयं पिण्डः स्वाहा । एतत्ते पितामहि ना० पिण्डः स्वा० । एतत्ते प्रपितामहि ना० पिण्डः स्वा० । एतत्ते पितर्नान्दीमुखायं पिण्डः स्वाहा । एतत्ते पितामह ना० पिण्डः स्वा० । एतत्ते प्रपितामह ना० पिण्डः स्वाहा । एतत्ते मातामह [४] ना० यं पिण्डः स्वाहा । एतत्ते मातुःपितामह ना० पिण्डः स्वा० । एतत्ते मातुःप्रपितामह ना० पिण्डः स्वा० । इत्येतैर्यथायथं तत्तद्रेखास्थबर्हिषि देवतीर्थेनैव पृषदाज्यदधिवदराक्षतयवैरुद्धृतमन्नं मिश्रयित्वा तेन पिण्डान्दद्यात्[५] । अत्रापि सपत्नीकत्वाभिध्यानमात्रम् । सर्वाभावे पृषदाज्ययवमात्रमिश्रणम् । प्रतिपिण्डं तूष्णीं द्वितीयपिण्डदानम्[६] । आपो देवीः स्वाहया० गच्छन्तु० पितरो नान्दीमुखाः स्योनाः० तमे पितॄन्नान्दीमुखान् । अत्र पितरो नान्दीमुखा यथा० अमीमदन्त पितरो नान्दीमुखा अनुस्वाहमा० आङ्क्ष्व मातर्नान्दीमुख इत्याद्यूहेनाञ्जनं दद्यात् । अभ्यङ्क्ष्व मातर्नान्दीमुख इत्याद्यूहेनाभ्यञ्जनं दद्यात् । एतानि वः पितरो नान्दीमुखा वासा सीत्येवमूहितेन दशामूर्णास्तुकां वा छित्त्वा छित्त्वा पिण्डेषु क्षिपति पूर्वे वयसि । उत्तरे वयसि तु दक्षिणप्रकोष्ठस्थं हृदयस्थं वा लोम च्छित्वा छित्त्वा तेनैव मन्त्रेण प्रक्षिपति न दशा नोर्णास्तुका ।

 ततः पितृभ्यो नान्दीमुखेभ्यो नम इति गन्धादिभिः पूजयेत् । अत्राऽऽरक्तगन्धारक्तपुष्पाक्षतमालाद्यपि देयम् ।

 ततो नमो वः पितरो रसायेत्यादिषु पितृशब्दोत्तरं नान्दीमुखशब्दप्रयोगः । ([७] नमो वः पितरो नान्दीमुखा रसाय पितरो नान्दीमुखा नमो वो य ए० भूयासं न० रो ना० खाः शु० य पि० रो ना० न० रो ना० जी० न० रोना०


१४१
 
  1. एतदग्रे ङ. पुस्तके सपत्नीका इत्यस्ति । एवमग्रेऽपि ।
  2. ङ ष्णी द्वितीयपिण्डदानपक्षे त ।
  3. ङ. म् । ए ।
  4. एतदग्रेऽत्राग्रे च ङ. पुस्तके सपत्नीका इति वर्तते ।
  5. ङ. त् । सर्वा ।
  6. ङ. म् । एतच्च कृताकृतम् । आङ्क्ष्व ।
  7. धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके ।