पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[वैश्वदेवेऽतिथिपूजनम्]
९६३
संस्काररत्नमाला ।

 पराशरः--

"दूरादु(ध्वो)पगतं श्रान्तं वैश्वदेवमुपस्थितम् ।
अतिथिं तं विजानीयान्नातिथिः पूर्वमागतः" इति ॥

 दूरध्वोपगतं ग्रामान्तरागतम् । श्रान्तं क्षुधापरिपीडितम् ।

अत एव व्यासः--

"दूरादाश्रमसंप्राप्तः क्षुत्तृ[१]ष्णाश्रम[२]पीडितः ।
यः पूज्यतेऽतिथिः सम्यगपूर्वः ऋतुरेव सः" इति ॥

 नातिथिः पूर्वमागत इति तस्मिन्नेवातिथिर्नोत्तरेद्युरित्यर्थः ।

तथा च मनुः--"एकरात्रं हि निवसन्नतिथिर्ब्राह्मणः स्मृतः" इति ।

 वैश्वदेवमुपस्थितमिति दिवसाभिप्रायम् । सायं तु वैश्वदेवकाले कालान्तरे वा प्राप्तोऽतिथिरेव ।

तथा च मनुः--

"अप्रणोद्योऽतिथिः सायं सूर्योढो गृहमेधिना ।
काले प्राप्तोऽप्यकाले वा नास्यानश्नन्गृहे वसेत्" इति ॥

 सूर्योढोऽस्तं गच्छता सूर्येण देशान्तरमागमनाशक्तिमुत्पाद्य गृहं प्रापित इत्यर्थः । अस्य गृहस्थस्य, अतिथिरित्यध्याहारः ।

याज्ञवल्क्योऽपि--"अप्रणोद्योऽतिथिः सायमपि वा भूतृणोदकैः" इति ।

 प्रचेता अपि--

"यः सायंवैश्वदेवान्ते सायं वा गृहमागतः ।
देववत्पूजनीयोऽसौ सूर्योढः सोऽतिधिः स्मृतः" इति ॥

 सायं वेत्यत्र वैश्वदेवात्पूर्वमित्यध्याहारः ।

 दूराध्वपदव्यावर्त्यमाह वैयाघ्र[३]पद्यः--

"अचिन्तितमनाहूतं वैश्वदेवे व्यवस्थितम् ।
अतिथिं तं विजानीयान्नैकग्रामनिवासिनम्" इति ॥

 पराशरः--

"अतिथिं तत्र संप्राप्तं पूजयेत्स्वागतादिना ।
तथाऽऽसनप्रदानेन पादप्रक्षालनेन च ॥
श्रद्धया चान्नदानेन प्रियप्रश्नोत्तरेण च ।
गच्छतश्चानुयानेन प्रीतिमुत्पादयेद्गृही" इति ॥

 स्वगृहे राज्ञ आगमने तस्याप्यातिथ्यं कार्यम् । तथा च मार्कण्डेयपुराणे--

"यस्य च्छन्नं हयश्चैव कुञ्ज[४]रारोहमृद्धितम् ।
ऐन्द्रस्थानमुपासीत तस्मात्तन्न विचारयेत्" इति ॥


  1. च. त्तृषाश्र ।
  2. क. मकारिभिः । यः ।
  3. क. घ्रपादः । अ ।
  4. क. ख. ञ्जरोरो ।