पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[संमार्जनाद्याज्योद्वासनान्तो विधिः]
८५
संस्काररत्नमाला ।

तत्पात्रमद्भिः पूरयेत् । नात्र किंचिदुदकानयनं पृथिव्याः करणत्वेनाभिध्यानं पुनरुदकेनोपबिलपूरणं च प्रणीतावद्भवति । ततस्ता अपः पूर्ववदुत्पूय बिलवन्ति पात्राण्युत्तानानि कृत्वेध्मं विस्त्रस्य प्राक्संस्थं त्रिः सर्वाभिरद्भिः सपवित्रेण हस्तेन सर्वाणि पात्राणि प्रोक्षति । अमुष्टीकृतेनोत्तानेन हस्तेन जलसेचनं प्रोक्षणम् ।

 ततः स्रुवं दर्वीमासादितान्साग्रान्संमार्गदर्भांश्च गृहीत्वाऽग्नौ दक्षिणहस्तेनैव सहैव निष्टप्य दर्वीं दर्भेषु निधाय सव्यहस्ते स्रुवं गृहीत्वा दक्षिणेन हस्तेन दर्भाग्रैरन्तरतोऽभ्याकारं सर्वतो बिलमभिसंमार्ष्टि दर्भमूलैर्दण्डम् । ततः पुनर्निष्टप्य दर्भेषु निधाय दर्वीं तथैव गृहीत्वा दर्भाग्रैः प्राक्संस्थं पुष्करप्रदेशं संमृज्य दर्भमध्यैः प्रत्यक्संस्थं पुष्कराधोभागं दर्भमूलैर्दण्डं च संमृज्य पुनर्निष्टप्य स्रुवस्योत्तरतो दर्भेषु निदधाति । संमृष्टासंमृष्टपात्राणां संसर्जनं न कार्यं कृत्स्नसंमार्जनक्रियासमाप्तिपर्यन्तमिति केचित् । प्रयोगसमाप्तिपर्यन्तमित्यन्ये । तत्र यदि संस्पर्शः "पुनरेव निष्टप्य संमृज्यात्स्वेन मन्त्रेण" इति भारद्वाजोक्तेरसंमृष्टपात्रसंस्पर्शे पुनः संमार्ग एव प्रायश्चित्तम् । ततः संमार्गदर्भानभ्युक्ष्याग्नावनुप्रहरति । मुष्टीकृतेनावाचीनेन हस्तेन जलसेचनमक्ष्युक्षणम् । केवलाज्यहोमतन्त्रे न स्रुवः ।

 ततो गव्यमाज्यं बहिरेव द्रवीकृत्य पवित्रान्तर्हितायामपरेणाग्न्यायतनं दर्भेषु स्थापितायामाज्यस्थाल्यां गालितमाज्यं प्रभूतं निरुप्योपवेषेणोत्तरपरिस्तरणाद्बहिरुदग्दिक्स्थानङ्गारान्निरुह्य व्यन्तान्कृत्वा तेष्वधिश्रित्याऽऽयतनस्थाग्नौ प्रदीपितैर्दर्भैरवाचीनज्वालैरुपरि ज्वलयित्वा तान्सव्ये गृहीत्वा दक्षिणहस्तेनाङ्गुष्ठपर्वमात्रं दर्भाग्रद्वयमाज्ये प्रत्यस्य तैरेव दर्भैरन्यैर्वा प्रज्वालितैस्त्रिः पर्यग्नि कृत्वा तानपि दर्भानुत्तरतो बहिर्निरस्याप उपस्पृशेत् । यदा तु निरूढाग्नौ प्रदीपनं तदा तत्रैव निरसनं न बहिः ।

 तत आज्यं कर्षन्निवोदगुद्वास्योपवेषेणाङ्गारानायतनस्थानौ मेलयित्वोदगग्रे पवित्रे धृत्वा ताभ्यामाज्ये पश्चाद्भागमारभ्य प्राग्भागं नीत्वा पुनः पश्चाद्भागमानीयोत्पुनीयादित्येवं त्रिरुत्पूय पवित्रयोर्ग्रन्थिं विस्रस्य पवित्रे अग्नावभ्याधाय शम्याकृतिभिः परिधिभिरग्निं परिदधाति । अपरेणाग्निमुदीचीनकुम्भं मध्यमं दक्षिणेनाग्निं प्राचीनकुम्बं दक्षिणमुत्तरेणाग्निं प्राचीनकुम्बमुत्तरम् । तत्र दक्षिणस्य परिधेर्मध्यमपरिधिमूलस्योपरि मूलं कर्तव्यम् । उत्तरस्य मध्यमपरिध्यग्रस्याधः[१] परिस्तरणानामुपर्येव परिधिपरिधानं का[२]र्यम् ।


  1. क. स्याधो मूलम् । प ।
  2. क. कर्तव्यम् ।