कल्पः प्रकारः । समिधि वा समारोपयेदित्युक्तं[१] तत्र समिन्नियममाह--खादिरीति । खदिराद्यन्यतमवृक्षस्येत्यर्थः । यत्र यस्मिन्देशेऽवस्येद्वासं कुर्यात्तस्मिन्देशे श्रोत्रियागाराच्छ्रोत्रियगृहादग्निमाहृत्याऽऽजुह्वान उद्बुध्यस्वेतिद्वाभ्यां मन्त्राभ्यां यस्यां समिधि समारूढोऽग्निस्तां समिधं तस्मिन्नग्नावादधाति । व्याख्यात उक्तः । "नित्यमत ऊर्ध्व सायंप्रातरित्यारभ्य सौरीं पूर्वां प्रातरेके समामनन्ति" इति सूत्रेणेति शेषः । अथवा व्याख्यातः श्रुतौ होमकल्पो वास्तोष्पतिहोमकल्प इत्यर्थः । अस्मिन्पक्षेऽवसितहोमनिवृत्त्यर्थं पूर्वत्र गुरुसूत्रं द्रष्टव्यम् । एतस्य क्षेपकत्वे समित्समारोपो नास्त्येव । आत्मसमारोपारणिसमारोपावाकाङ्क्षितत्वेन श्रौतसूत्रात्प्राप्नुतः । इयं प्राप्तिस्तु श्रौतमध्ये स्मार्ताम्नानात्सिद्धा ।
कृतात्मसमारोपणस्य धर्मा उक्ता बौधायनेन--
"आत्मनि समारूढेषु न खादेन्न पिबेन्नोपरि शयीत नाप्सु निमज्ज्यान्न |
उपरि खट्वादौ । नाप्सु निमज्ज्यादिति निमज्जनस्यैव निषेधो न तु स्नानस्य । द्विविधं हि स्नानम् । निमज्जनरूपमाप्लवनरूपं च । तत्र निमज्जनमप्स्वन्तर्धानरूपम् । आप्लवनं तु शीतोष्णाभिरद्भिः स्नात्वाऽऽचम्याऽऽप्लवन्त इत्यादिना विहितं शरीरप्रक्षालनरूपम् ।
अत एवावभृथेष्टौ--
"पत्नीयजमानौ स्नातावमज्जन्तावन्योन्यं पृष्ठे प्रधावतः " |
इति सूत्रे मज्जनव्यतिरिक्तप्रकारकस्नानोक्तिः संगच्छते । मज्जने कृते तु पुनराधानम् ।
तथा च मण्डनः--
"आत्मारूढेषु मज्जेद्वा वदेद्वा पतितादिभिः । |
आत्मारूढेष्विति सर्वत्रानुवर्तते । अस्मिन्वाक्ये निमज्जनपतितादिसंभाषणानृतुकालिकयोषिद्गमनैरग्निविनाशस्य पाक्षिकत्वोक्तेरितरेषु नैवाग्निविनाश इत्यर्थादवगम्यते । मैथुनमज्जने विहायान्यनियमातिक्रमे मनस्वतीमन्त्रजपः
- ↑ क. क्त स ।