पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७७०
भट्टगोपीनाथदीक्षितविरचिता-- [दत्तकपुत्रग्रहणप्रयोगः]

 ([१] अत्र नक्षत्रादिकमुक्तं व्यवहारसारे--

"हस्तादिपञ्चकभिषग्वसुपुष्यभेषु सूर्यक्षमाजगुरुभार्गववासरेषु ।
रिक्ताविवर्जिततिथिष्वलिकुम्भसिंहवृषेषु वै भवति दत्तपरिग्रहोऽयम्" इति ॥

 हस्तादिपञ्चकं हस्तचित्रास्वातीविशाखानूराधाः । भिषगश्विनी नक्षत्रम् । वसुः श्रविष्ठाः । क्षमाजो भौमः । अन्यत्स्पष्टम् । )

अथ प्रयोगः ।

 पूर्वेद्युः कृतोपवासो वाससी कुण्डले अङ्गुलीयकं छत्रमुष्णीषमाचार्यं धर्मसंयुक्तं वेदपारगं कुशमयं बर्हिः पालाशमिध्ममन्यां होमसामग्रीं च संपाद्य[२] शिष्टानिष्टाञ्ज्ञातीन्बन्धूंश्चाऽऽहूय तान्संपूज्य तत्समक्षं राज्ञि सभासत्सु च निवेद्य तैरनुज्ञातः पवित्रपाणिराचम्य प्राणानायम्य देशकालौ संकीर्त्य ममाप्रजत्वप्रयुक्तपैतृकर्णापाकरणसिद्धिपुनंनामनरकत्राणसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं पुत्रप्रतिग्रहं करिष्य इति संकल्प्य तदङ्गत्वेन गणपतिं संपूज्य बन्धुवर्गेभ्यो ब्राह्मणेभ्यश्चान्नदानं कृत्वा पुण्याहवाचनमातृकापूजननान्दीश्राद्धाचार्यवरणमधुपर्कार्हणानि कुर्यात् । ([३]स्त्रीकर्तृकप्रतिग्रहे तु मद्भर्तुर्मम चेति संकल्पवाक्ये विशेषः । गणपतिपूजनाद्याचार्यवरणान्तं ब्राह्मणद्वारा कारयेत् । ) पुत्रप्रतिग्रहाङ्गभूतहोमार्थमाचार्यं त्वामहं वृण इत्याचार्यवरणवाक्ये विशेषः ।

 तत आचार्य आचम्य प्राणानायम्योल्लेखनादि[४]स्थण्डिलसंस्कारं विधाय तत्र बलवर्धननामानं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा पुत्रप्रतिग्रहाङ्गभूतहोमकर्मणि या यक्ष्यमाणा इत्यादि प्रसाधनीदेव्यन्तं व्याहृत्यन्तं वोक्त्वा वैशेषिकप्रधानहोमे-- अग्निं चर्वाहुत्या यक्ष्ये । अग्निं वायुं सूर्यं प्रजापतिं चैकैकयाऽऽज्याहुत्या यक्ष्ये । अग्निं स्विष्टकृतं चरुशेषाहुत्या यक्ष्य इत्यादि । अङ्गहोमे वरुणं द्वाभ्यामित्यादि वा । पात्रासादने स्रुवं दर्वीमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रं चरुस्थालीं मेक्षणं शूर्पं कृष्णाजिनमुलूखलं मुसलमुपवेषं वासोद्वयं कुण्डले अङ्गुलीयकं छत्रमुष्णीषं संमार्गदर्भानवज्वलनदर्भान्पर्णमयमेवेध्मं कुशमयमेव बर्हिराज्यं च सहै[५]वाऽऽसादयेत् ।



  1. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. ख. पुस्तकयोः ।
  2. क. ख. द्य ज्ञाती ।
  3. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. ख. पुस्तकयोः ।
  4. ख. ग. ङ. च. दिसं ।
  5. ग. ङ. च. हैव सा ।