पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[जपमालालक्षणानि]
७४१
संस्काररत्नमाला

 द्वितीया तु सारसंग्रहे--

"अथ वक्ष्येऽक्षमालाया विधानं मन्त्रिकाम्यया ।
पञ्चविंशतिभिः प्रोक्ता मणिभिर्मुक्तिदायिनी ॥
त्रिंशद्भिर्धनदा सप्तविंशत्यक्षैस्तु सर्वदा ।
अभिचारकरी पञ्चदशभिः कल्पिता तु सा ॥
चतुष्पञ्चाशदक्षैः सा काम्यकर्मसु सिद्धिदा ।
अष्टोत्तरशतैः क्लृप्ता सर्वाभीष्टप्रदा मता ॥
मणयः शङ्खसंभूताः प्रोक्ता लक्ष्मीप्रदायकाः ।
भुक्तिमुक्तिप्रदाः स्फटिकजा पद्माक्षाः पुष्टिवर्धनाः ॥
भुक्तिमुक्तिप्रदाः प्रोक्ता रुद्राक्षाः सर्वसिद्धिदाः ।
पुत्रजीवभवाः पुत्रपशुधान्यसमृद्धिदाः ॥
विद्रुमोत्थास्तु मणयो धनसौभाग्यवश्यदाः ।
मौक्तिका मुक्तिदाः प्रोक्ताः सर्वसंपत्समृद्धिदाः ॥
पापापहाः कुशमयाः कामदाः स्वर्णरूप्यजाः" इति ।

 हा[१]रीतः--

"शङ्खरूप्यमयी माला काञ्चनी वनजोत्पलैः ।
पद्माक्षकैश्च रुद्राक्षैर्विद्रुमैर्मणिमौक्तिकैः ॥
राजतेन्द्राक्षकैर्माला तथैवाङ्गुलिपर्वभिः ।
पुत्रजीवमयी माला शस्ता वै जपकर्मणि" इति ॥

गौतमोऽपि--

"अङ्गुल्या जपसंख्यानमेकमेकमुदाहृतम् ।
रेखयाऽष्टगुणं पुत्रजीवैर्दशगुणाधिकम् ॥
शतं स्याच्छङ्खमणिभिः प्रवालैश्च सहस्रकम् ।
स्फाटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते ॥
पद्माक्षैर्दशलक्षं तु सौवर्णैः कोटिरुच्यते ।
कुशग्रन्थ्या च रुद्राक्षैरनन्तफलमुच्यते" इति ॥

 गोपालस्य तु पद्माक्षमालाऽतीव प्रशस्ता ।

"मौनी शान्तः शुचिर्दान्तः पद्मबीजाक्षमालया ।
जपेत्समाहितमना गोपालस्य मनुं सदा" इति गौतमोक्तेः ।



  1. ङ. हारितः ।