त्रिरात्रान्त उपवासत्रयान्त इत्यर्थः ।
"रजस्वलां तु यो गच्छेदुपवासत्रयं चरेत् । |
स रजस्वलागामी । एतच्चाकामतः । कामतस्त्वाह संवर्तः--
"रजस्वलां तु यो गच्छेद्गर्भिणीं पतितां तथा । |
अयं च गर्भिणीगमननिषेधोऽनन्तरोदाहृतात्रिवाक्यानुरोधेन सप्तममासमारभ्यैव प्रवर्तते ।
गर्भाधानाकरणे प्रायश्चित्तमाहाऽऽश्वलायनः--
"गर्भाधानस्याकरणात्तस्यां जातस्तु दुष्यति । |
अकृत्वेत्यनन्तरमपिशब्दोऽध्याहार्यः ।
"प्रायश्चित्ते कृते पश्चादतीतमपि कर्म वै । |
इति वचनसंवादात् । गां द्विजाय दत्त्वाऽकृत्वाऽपि गर्भाधानं पतिः पुंसवनं कुर्यादित्युत्तरार्धार्थः । एतच्च प्रायश्चित्तं केवलस्य गर्भाधानस्य मुख्यकालानतिक्रान्तेन केवलेन पुंसवनेन सह क्रियायां, मुख्यकालातिक्रान्तेन पुंसवनेन सह क्रियायां तु पूर्वोक्तं कृच्छ्रात्मकं ज्ञेयम् । अथवोभयत्रापि समुच्चयः ।
एतच्च गर्भाधानं मासादिशुभाशुभफलानि विचार्य स्वल्पे दोषे पूर्वं शान्तिं कृत्वा शुभे मुहूर्ते कर्तव्यमेव न तु शुभकालिकत्वापेक्षा । प्रभूतदोषे तु प्रथमर्तौ शान्तिमेव कृत्वाऽग्रे शुभकालिक ऋतौ प्राप्ते कार्यम् ।
तथा च ज्योतिर्वसिष्ठः--
"प्रभूतदोषं यदि दृश्यते तत्पुष्पं ततः शान्तिककर्म कार्यम् । |
ऋतौ प्रभूतदोषत्वं नामानेकदोषवत्त्वं महादोषवत्त्वं वेति द्रष्टव्यम् । महादोषास्तु वैधव्यप्रदत्वकुटिलत्वसंततिनाशकत्वादिरूपाः ।
ज्यो[१]तिष्कश्यपोऽपि--
"तिथिवासरधिष्ण्येषु पुष्पं दुष्टेषु दृश्यते । |
- ↑ ग. ज्योतिष्प्रकाशे कश्य