पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[गर्भाधानप्रकरणम्]
६९१
संस्काररत्नमाला
( ऋतुगमने विशेषः, संभोगकाले नियमाः )
 

तर्जन्या चूर्णमादाय ताम्बूलं न तु खादयेत् ।
यदि वा खादयेन्मूढो रौरवं नरकं व्रजेत् ॥
कनिष्ठानामिकामध्यातर्जन्यङ्गुष्ठयोगतः ।
शोको हानिस्तथा मृत्युरनैश्वर्यायुषी क्रमात् ॥
अङ्गुष्ठेन तु लेपेन सर्वसिद्धिप्रदायकम् ।
जयस्त्रीवस्त्रलाभादि भविष्यति न संशयः ॥
वामहस्तेन खादेन्न स्त्रीहस्तेम तथैव च ।
यदि वा खादयेन्मूढस्तस्य लक्ष्मीर्विनश्यति ॥
दिवा खदिरसारेण ताम्बूलं तु सुशोभितम् ।
रात्रौ खदिरसारेण शक्रस्यापि श्रियं हरेत् ॥
प्रातःकाले फलाधिक्यं चूर्णाधिक्यं तु मध्यतः ।
निशि पर्णाधिकं भक्षेत्तस्य लक्ष्मीर्विवर्धते ॥
क्रमुकसारं त्रिवारं द्विवारं पर्णसारकम् ।
खादिरेण सहैकं च उत्क्षिपेत्सर्वदा बुधः" इति ॥ )

 संभोगकाले स्त्रियमकञ्चुकां कृत्वा भोगं कुर्यात् ।

"सकञ्चुकरतिं कृत्वा सचैलं स्नानमाचरेत्"

 इति रतिप्रकाशे प्रायश्चित्तश्रवणात् । मैथुनकाले तर्जन्यां रौप्यं चेत्तत्परित्याज्यं शिखा च विसर्जनीया ।

"तर्जनीं रौप्यसंयुक्तां ब्रह्मग्रन्थियुतां शिखाम् ।
भोजने मैथुने मूत्रे कुर्वन्कृच्छ्रेण शुध्यति"

 इति संग्रहे प्रायश्चित्तश्रवणात् ।

 संभोगोत्तरकृत्यं धर्मसूत्रे--"उदकोपस्पर्शनम्" इति ।

 उदकोपस्पर्शनं स्नानम् । एतच्चर्तुकाल इति व्याख्यातमुज्ज्वलाकृता ।

पराशरोऽपि--"ऋतौ तु गर्भशङ्कित्वात्स्नानं मैथुनिनः स्मृतम्" इति ।

 एतच्च स्नानमशिरस्कम् । ऋतुगमननिमित्तकस्नानं प्रकृत्य--

"अशिरस्कमेव मज्जनं कुर्यात्" इति बृहद्वसिष्ठोक्तेः ।

 अनृतौ तु धर्मसूत्रे--

"लेपान्प्रक्षाल्य पादौ चाऽऽचम्य प्रोक्षणमङ्गानाम्" इति ।