पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[गर्भाधानप्रकरणम्]
६६१
संस्काररत्नमाला
( रजोदोषविधिः, स्नानविधिः )
 

अथ रजोदोषावधिः ।

 मदनपारिजाते मरीचिः--

"शुद्धा भर्तुश्चतुर्थेऽह्नि स्नानेन स्त्री रजस्वला ।
दैवे कर्मणि पित्र्ये च पञ्चमेऽहनि शुध्यति" इति ॥

 उपगमनार्हा भवतीति पूर्वार्धः । इदं च रजोनिवृत्तौ ज्ञेयम् । "गम्या निवृत्ते रजसि नानिवृत्ते कथंचन" इत्यापस्तम्बवचनात् । उत्तरार्धं तु कर्मानधिकारं प्रतिपादयति । यद्यपि मरीचिवचनेन सर्वेषु श्रौतेषु स्मार्तेषु दैवपित्र्यकर्मसु चतुर्थदिवसे रजोनिवृत्तौ सत्यामपि कर्मानर्हत्वं प्रतिपादितं तथाऽपि

"रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला" ।

 इति मनुवाक्ये मदनपारिजातेन साध्वी गर्भाधानादिविहितकर्मयोग्येत्यादिपदोपादानेन प्रधानानुरोधेन तदधिकारसंपत्त्यर्थशान्तावप्यधिकारस्य प्रदर्शितत्वात्, एवं श्रौतेषु दर्शादिषु चतुर्थेऽहन्यपि शुद्धिः ।

"चतुर्थेऽहनि गोमूत्रमिश्राभिरद्भिः स्नाता प्रक्षालितानि
तान्येव वासोयोक्त्रजालानि पुनर्मन्त्रैर्धारयेत्" ।

 इति सोमप्रकरणे बौधायनवचनात्, यदा त्रिरात्रेणेतिवचनाद्रजस्वलायाः स्नानदिवसेऽपि श्रौतकर्माणि कर्तव्यान्येव न तु पञ्चमेऽहन्येवेति नियम इति भाष्यकारोक्तेश्च रजोनिवृत्तावेव चतुर्थेऽहन्यधिकार इति प्रायश्चित्तचन्द्रिकायाम् । एवमुदाहृतमदनपारिजातग्रन्थ आदिपदमुपनयनादेरपि ग्राहकं, तत्रापि वक्ष्यमाणश्रीसूक्तहोमपूर्वकाभिषेकेण चतुर्थेऽहन्यधिकारसंभवात् । एतच्चान्यदिनाननुकूलतायाम् । तदनुकूलतायां तु शान्तिपूर्वकमेतत्पञ्चमेऽहन्येवेति बोध्यम् ।

इति रजोदोषावधिः ।

अथ स्नानविधिः ।

स्मृत्यर्थसारे--

"ब्राह्मणी रजस्वला चतुर्थेऽह्नि षष्टिपलमृत्तिकाभिः शौचं कुर्यात् । क्षत्रियादिस्त्रियः पादन्यूनमृत्तिकाभिर्विधवा द्विगुण-
मृत्तिकाभिस्ततो मलं प्रक्षाल्य दन्तधावनपूर्वकं सचैलं
संगवे स्नायात्" इति ।

 अत्रिः--

"रजस्वला चतुर्थेऽह्नि मृत्तिकाषष्टिभिः पृथक् ।
शौचं कृत्वा यथान्यायं दन्तानां धावनं तथा ॥
कृत्वा तु संगवेऽतीते सचैलं स्नानमाचरेत् ।
भस्मगोमयमृद्भिश्च सर्वैरन्यतमेन वा ॥