पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[गर्भाधानप्रकरणम्]
६५९
संस्काररत्नमाला
( सर्वर्तुसाधारणा नियमाः )
 

 वसिष्ठोऽपि--

"त्रिरात्रं रजस्वलाऽशुचिर्भवति सा नाञ्ज्यान्नाभ्यञ्ज्यान्नाप्सु स्नायादधः
शयीत न दिवा स्वप्यान्नाग्निं स्पृशेन्न रज्जुं सृजेन्न दन्तान्धावयेन्न मांस-
मश्नीयान्न ग्रहान्निरीक्षेत न हसेन्नाश्लीलं किंचिदाचरेदखर्वेण पिबे-
दञ्जलिना वा पिबेल्लौहेनाऽऽयसेन वा विज्ञायते" इति ।

 अशुचिरिति पदच्छेदः । नाप्सु स्नायात् । नैमित्तिके स्नाने प्राप्ते निमज्जनरूपं स्नानं नैव कुर्यात् ।

 अत एव पराशरः--

"स्नाने नैमित्तिके प्राप्ते नारी यदि रजस्वला ।
पात्रान्तरिततोयेन स्नानं कृत्वा व्रतं चरेत्"

 इत्युद्धृतोदकेन स्नानमाह । अखर्वेण महतेत्यर्थः । लौहेन ताम्रेण ।

 दक्षः--

"अञ्जनाभ्यञ्जने स्नानं प्रवासं दन्तधावनम् ।
न कुर्यात्सार्तवा नारी ग्रहाणामीक्षणं तथा ।
दिवानिद्रां च ताम्बूलं तालवृन्तादिबन्धनम् ।
एवमुक्तप्रकारेण तिस्रो रात्रीर्व्रतं चरेत्" इति ।

 ([१] अत्र नित्यस्नानं निपिध्यते । )

 गर्गः--

"आहारं गोरसानां च पुष्पालंकारधारणम् ।
अञ्जनं कङ्कतं गन्धान्पीठशय्याधिरोहणम् ।
अग्निसंस्पर्शनं चैव वर्जयेत्सा दिनत्रयम्" इति ।

 कङ्कतं केशप्रसाधनम् । पीठं च शय्या च पीठशय्ये तयोरधिरोहणमिति विग्रहः । अत्र पीठशय्ययोर्ग्रहणात्सोपानारोहणे निषेधो न । सा रजस्वला ।

स्मृत्यन्तरे--

"भूमौ कार्ष्णायसे पाणौ शरावे दग्ध एव वा ।
रजस्वला तु भुञ्जीत लौहेन तु जलं पिबेत्" इति ।

 अत्रिः--

"वर्जयेन्मधु मांसं च पात्रे खर्वे च भोजनम् ।
गन्धमाल्यं दिवास्वापं ताम्बूलं चाऽऽस्यशोधनम् ।
दग्धे शरावे भुञ्जीत पेयं चाञ्जलिना पिबेत्" इति ।

 अखर्वमह्रस्वं पात्रम् । आस्यशोधनं मुखशोधनम् ।

"गन्धमाल्यं दिवास्वापं ताम्बूलं कांस्य[२]भाजनम्" ।



  1. धनुश्चिह्नान्तर्गतं ड. च. पुस्तकयोर्नास्ति ।
  2. क.स्यभोज ।