पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[गर्भाधानप्रकरणम्]
६५५
संस्काररत्नमाला
( प्रष्टृपरिहितवस्त्ररजसां फलानि )
 

रजः पश्यति चेत्कन्या पुमान्वा तत्सुखं भवेत् ।
स्वयं दृष्टं तथा स्त्रीणामात्मघाताय कल्पते" इति ॥

 पुरंध्री सौभाग्यवती स्त्री । विशस्ता विधवा । इति द्रष्टृफलम् ।

अथ प्रष्टृफलम् ।

"माता पृच्छति चेद्व्यर्थं पिता पृच्छति चेत्सुखम् ।
श्यालो दारिद्र्यमाप्नोति स्वसा चेदायुषः सुखम् ॥
पिसृष्वसा धनं याति सो[१]दरा विपुलं धनम् ।
प्रष्टा भ्राताऽऽयुषः क्षण्यमित्येवं लभतेऽङ्गना" इति ॥

 श्यालः पृच्छति चेत्तदा रजोवती दारिद्र्यमाप्नोतीत्यर्थः । पितृष्वसा पितृभगिनी पृच्छति चेत्तदा धनं याति धनं प्राप्नोतीत्यर्थः ।

अथ परिहितवस्त्रफलम् ।

"सुभगा श्वेतवस्त्रा स्यान्नववस्त्रा पतिव्रता ।
दुर्भगा जीर्णवस्त्रा स्यात्सुभगा क्षौमवत्रिणी ॥
लोहिते तु भवेद्वन्ध्या चित्रवर्णे तु पुत्रिणी ।
कृष्णे तु विधवा नारी रजस्येतत्तु लक्षणम्" इति[२]

इति परिहितवस्त्रफलम् ।

अथ रजःफलम् ।

"प्रथमर्तौ फलं स्त्रीणामुच्यते रजसोऽधुना ।
सुभगा पुत्रसंयुक्ता शुक्लवर्णे तथाऽऽर्तवे ॥
शशशोणितसंकाशे यद्वाऽलक्तकसंनिभे ।
पुत्रकन्याप्रसूतिः स्यान्नीले तु स्यान्मृतप्रजा ॥
कर्पूरे म्रियते सद्यः पिङ्गले च मृतप्रजा ।
कृष्णे तु विधवा नारी रजस्येवं विनिर्दिशेत् ॥
शोणिते बिन्दुमात्रे तु स्वैरिणी त्वल्पशोणिते ।
वरा मध्यस्रवा स्यात्तु दुर्भगा बहुशोणिता ॥
रक्ते रक्ते भवेत्पुत्रः कृष्णे च मृतपुत्रिका ।
पिच्छलाभे भवेद्वन्ध्या काकवन्ध्या च पाण्डुरे ॥
पीते च स्वैरिणी प्रोक्ता सुभगा गुञ्जवर्णके ।
सिन्दूराभे भवेत्कन्या रजःशोणितलक्षणम्" इति[३]



  1. ख. ङ. च. सौदरी ।
  2. क. ख. ग. ति । अन्यच्च ग्रन्थान्तरे--प्र ।
  3. ङ. च. ति । इ ।