।द्यावापृथिवीभ्यामिदं न मम । अत्र वाऽज्यानीहोमः । अस्मिन्पक्षे नाऽऽज्यसंस्कारः । संस्कृताज्यस्य सत्त्वात् । प्रत्याहुतिसमिदभ्याधानं भवत्येव । इध्मस्याभावात् । अज्यानीहोमस्याकरणमेव वा ।
ततो मेक्षणेनोत्तरार्धाद्भूय उपहत्य 'ॐ अग्नये स्विष्टकृते स्वाहा' इतीशान्यामितराहुतिभिरसंस्पृष्टां जुहोति । अग्नये स्विष्टकृत इदं न मम । ततो मेक्षणमनुप्रहरेन्न वा प्रहरणम् ।
ततः परिस्तरणानि विसृज्य दर्व्या व्यस्तसमस्तव्याहृतिभिश्चतस्रः प्रायश्चित्ताहुतीर्हुत्वाऽदितेऽन्वम स्था इत्यादिभिरुत्तरपरिषेकं कृत्वा संस्थाजपेनाग्निमुपस्थायाग्निं संपूज्य भस्म धृत्वाऽऽचार्याय दक्षिणां दत्त्वा कर्मसाद्गुण्याय विष्णुं संस्मरेत् ।
ततो हुतशेषमिश्रितेन सव्यञ्जनेन नवान्नेन ब्राह्मणान्संभोज्य स्वयं प्राणाहुतिभ्यः प्राक्,
भद्रान्न इति मन्त्रस्य विश्वे देवाः पितुस्त्रिष्टुप् । नवव्रीह्यन्नाशने विनियोगः । 'ॐ भद्रान्नः श्रेय० स्योनः' इति मन्त्रमुक्त्वा प्राणाहुत्यादिविधिना नवान्नमिष्टबन्ध्वादियुतो भुञ्जीत । हुतशेषमिश्रान्नस्य भुक्तस्य वमने भक्षितेडाभागवमनप्रायश्चित्तमेव कार्यम् ।
तच्चाऽऽधानदीपिकायाम्--
"इडाभागे भक्षिते तु वमनं वै भवेद्यदा । |
पूर्वं स्नानं शुद्ध्यर्थं तूष्णीं कृत्वाऽऽभिर्गीर्भिरिति मन्त्रेण पुनः स्नानं मार्जनं च कृत्वा दशवारमाभिरितिमन्त्रजपः कार्यः ।
"अनेन मार्जनं कृत्वा तस्य दोषप्रशान्तये" इति पाठे तु--आभिरिति मन्त्रेण मार्जनं कृत्वैतस्यैव मन्त्रस्य दशवारं जपः कार्य इति प्रयोगो द्रष्टव्यः । पूर्वं स्नानं त्वर्थसिद्धम् । अयमेव पाठो युक्तः ।
इति व्रीह्याग्रयणस्थालीपाकः ।
अथ यवाग्रयणम् ।
तच्च वसन्ते । तत्र यवाग्रयणस्थालीपाकं करिष्य इति संकल्पवाक्यम् । नूत