श्रपणपक्ष एकस्यैव चरोः सत्त्वात्तमेकवारमेवाभिघार्याऽऽसादितेषु चतुर्षूद्धरणपात्रेषूपस्तीर्य तेषु तं समश उद्धृत्य, अयमग्नाविष्णुभ्याम् । अयं सरस्वत्यै । अयं सरस्वते । अयमग्नये भगिने, इति क्रमेणोदक्संस्थमिदानीं देवता निर्दिशेत् । यदा तूद्धरणपात्रमेकमेवाऽऽसादितं तदैकस्मिन्नेव पात्रे देशभेदेनोपस्तरणमुद्धरणं च ।
ततोऽदितेऽनुमन्यस्वेत्यादिभिः परिषिच्य तूष्णीं समिधमाधाय प्रधानहोमं कुर्यात् । प्रथमेन धृष्ट्याकारमेक्षणेन प्रथमचरोरुपहत्याग्नाविष्णुभ्यां स्वाहेति जुहोति । अग्नाविष्णुभ्यामिदं न मम ।
ततो द्वितीयेन मेक्षणेन द्वितीयचरोरुपहत्य सरस्वत्यै स्वाहेति प्रथमाहुतेः पुरस्ताज्जुहोति । सरस्वत्या इदं न मम ।
ततस्तृतीयेन मेक्षणेन तृतीयचरोरुपहत्य सरस्वते स्वाहेति द्वितीयाहुतेः पुरस्ताज्जुहोति । सरस्वत इदं न मम ।
ततश्चतुर्थेन मेक्षणेन चतुर्थचरोरुपहत्याग्नये भगिने स्वाहेति तृतीयाहुतेः पुरस्ताज्जुहोति । अग्नये भगिन इदं न मम । एकस्थालीपक्ष एकस्यैव मेक्षणस्याऽऽसादितत्वात्तेनैव ग्रहणम् ।
ततो दर्व्या वैशेषिकजयोपहोमं कुर्यात् । तत्र विशेषः । स्रुवेण दर्व्यां द्वादशगृहीतं गृहीत्वा द्वादश जयाञ्जुहोति । ते च सामान्यप्रयोग उक्ताः । पुनः सकृद्गृहीत्वा 'ॐ प्रजापतिर्ज० भूव स्वाहा' इति जुहोति । प्रजापतय इदं न मम ।
ततस्तेन तेन मेक्षणेन तस्य तस्य चरोरुत्तरार्धात्सकृदुपहत्याग्नये स्विष्टकृते स्वाहेतीशान्यामसंसक्तामितराभिराहुतिभिर्जुहोति । अग्नये स्विष्टकृत इदं न मम । एक मेक्षणं चेत्तेनैव ग्रहणम् । ततो मेक्षणप्रहरणं कृताकृतम् ।
ततः परिस्तरणानि विसृज्य समस्तव्याहृतीभिः प्रायश्चित्तहोमं कृत्वोत्तरपरिषेकं कृत्वा संस्थाजपेनोपस्थायाग्निं संपूज्य भस्म धृत्वाऽऽचार्याय मिथुनौ गावौ दक्षिणां दत्त्वाऽन्येभ्यो भूयसीं दत्त्वा ब्राह्मणान्भोजयित्वा कर्मसाद्गुण्याय विष्णुं संस्मरेत् ।
एते च चतुर्होतृहोमसारस्वतहोमान्वारम्भणस्थालीपाकाः कृताकृताः । सूत्रेऽनुक्तत्वात् ।
इत्यन्वारम्भणस्थालीपाकप्रयोगः ।