तथा च मत्स्यब्रह्माण्डपुराणयोः--
"कुह्विति कोकिलेनोक्ते यावान्कालः समाप्यते । |
इति संधिस्वरूपे ज्ञाते संधौ यजेतेतिश्रुतेः संधौ यागः प्राप्तस्तस्य चातिसूक्ष्मत्वेन कर्मानुष्ठानायोग्यत्वात्संधिशब्दः संधिपार्श्वद्वयं लक्षयति । तथा च संधिपार्श्वद्वये संधौ यजेतेतिश्रुतिर्यागं विधत्ते । अत एव श्रुत्यन्तरम्--'संधिमभितो यजेत' इति ।
हेमाद्रौ बौधायनोऽपि--
"सूक्ष्मत्वात्संधिकालस्य संधेर्विषय उच्यते । |
अत्र पूर्वपरशब्दाभ्यां क्रमेण संधेः पूर्वं पर्वदिनं परं प्रतिपद्दिनं च क्रमेणाभिधीयते ।
तत्र कृत्स्नस्य पर्वणः प्रतिपदश्च ग्रहणे प्राप्ते नियममाह वृद्धशातातपः--
"पर्वणो यश्चतुर्थोंऽश आद्याः प्रतिपदस्त्रयः । |
यागकालविवेकमाह गोभिलः--
"आवर्तने यदा संधिः पर्वप्रतिपदोर्भवेत् । |
तथा--
"पर्वप्रतिपदोः संधिरर्वागावर्तनाद्यदि । |
लौगाक्षिः--
"पूर्वाह्णे वाऽथ मध्याह्ने यदि पर्व समाप्यते । |
स्मृत्यन्तरेऽपि--
"आवर्तने यदा संधिस्ततः पूर्वमथापि वा । |
तथा--
"अपराह्णेऽथ वा रात्रौ यदि पर्व समाप्यते । |
पूर्वाह्ण आवर्तने वा संधौ तस्मिन्नेवाहनि यागः । पूर्वेद्युरन्वाधानादि । आव