अत्रोपस्थानग्रहणं होमोपलक्षणम् । ऋत्विगादिभिरयं होमो दंपत्योः संनिधाने सत्येव कार्यः । अभावेऽन्यतरसंनिधाने । उभयोरप्यसंनिधाने हुतमप्यहुतं भवति ।
तदुक्तं स्मृत्यर्थसारे--
"असमक्षं तु होतव्यं दंपत्योर्नर्त्विगादिभिः । |
स्मृ[१]त्यन्तरे--
"संनिधौ यजमानः स्यादुद्देशत्यागकारकः । |
यजमानस्योन्मादे पत्न्यां चर्तुमत्यां प्रसूतायां वा नानुज्ञा पत्न्याः ।
"असंनिधौ तु पत्न्याः स्यादध्वर्युस्तदनुज्ञया । |
इति मदनपारिजाते स्मृतेः । एतस्मादेव वचनाज्ज्ञायत ऋत्विगादीनां होमार्थमनुज्ञापेक्षाऽस्तीति ।
अस्ति च स्पष्टं कौर्मं वचनम्--
"ऋत्विक्पुत्रोऽथवा पत्नी शिष्यो वाऽपि सहोदरः । |
विशेषेणेति वचनं ममाऽऽवश्यकं कार्यं किंचिदस्ति मम काचिदापदस्ति त्वया होमः कार्य इति विशेषतोऽनुज्ञापेक्षणार्थम् ।
अन्यच्च स्मृत्यर्थसारे--
"नोपवासी प्रवासे स्यात्पत्नी धारयते व्रतम् । |
तद्दिङ्मुखो यस्यां दिश्यग्नयो भवन्ति तद्दिगभिमुख इत्यर्थः ।
ऋत्विग्लक्षणमाहाऽऽश्वलायनः--
"ऋत्विजो वृणीतेऽन्यूनानतिरिक्ताङ्गान्ये मातृतः पितृतश्चेति |