पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[औपासनहोमः]
६११
संस्काररत्नमाला
( अवदानपरिमाणम् )
 

 अगस्त्यः--

"द्रवद्रव्यस्य मानं स्याद्धारा गोकर्णदीर्घिका" इति ।

 छन्दोगपरिशिष्टे--

"धान्याहुतिर्द्वादशपर्वपूरिका घृतादिना चेत्स्रुववक्त्रपूरिका ।
दैवेन तीर्थेन च हूयते हविः स्वङ्गारिणि स्वर्चिषि तत्र पावके" इति ॥

 द्वादशपर्वपूरकद्रव्यासंभवे टोडरानन्दे शङ्खः--

"आर्द्रामलकमात्रा वै ग्राह्या(सा) इन्दुव्रते स्मृताः ।
तथैवाऽऽहुतयोऽग्नौ च शौचार्थे या च मृत्तिका" इति ॥

 होमे विशेषः संग्रहे--

"अङ्गुल्यग्रैर्न होतव्यमकृत्वाऽङ्गुलिभेदनम् ।
अङ्गुल्युत्तरपार्श्वेन होतव्यमिति तु स्मृतिः" इति ॥

 बौधायनोऽपि--

"निर्वपणसंस्त्रवणलाजहोमनित्यहोमान्कायतीर्थेन कुर्यात्" इति ।

 नित्यहोम औपासनादिः ।

 गोभिलीये विशेषः--

"न मुक्तकेशो जहयान्नानिपातितजानकः ।
अनिपातितजानोस्तु राक्षसैर्ह्रियते हविः" इति ॥

 एतच्च सर्वहोमविषयम् ।

 आचाररत्ने याज्ञवल्क्यः--

"हुत्वाऽग्निसूर्यदैवत्याञ्जपेन्मन्त्रान्समाहितः" इति ।

 स्मृतिप्रदीपे तु--

"उपतिष्ठेदग्निसूर्यौ तत्तन्मन्त्रैः समाहितः" इत्युपस्थानमुक्तम् ।

 तेन विकल्पः । सायंहोमेऽग्निदैवत्यमन्त्रजपोऽग्निदैवत्यैरुपस्थानं वेत्येतदन्यतरत्कार्यम् । प्रातर्होमे तु सूर्यदैवत्यमन्त्रजपः सूर्यदैवत्यैरुपस्थानं वेत्येतदन्यतरदिति । अस्मिन्होमे कर्ता स्वयमेव । आचार्येणान्येषामविधानादाश्वलायनेन स्पष्टतया स्वस्यैव मुख्यकर्तृत्वाभिधानाच्च । अशक्तावसांनिध्ये कार्यव्यासक्तौ वा, ऋत्विगादयः ।

तथा च दक्षः--

"ऋत्विक्पुत्रो गुरुर्भ्रीता भागिनेयोऽथ विट्पतिः ।
एतैरेव हुतं यत्तु तद्धुतं स्वयमेव तु" इति ॥

 पुत्रस्थाने पत्नीत्यपि पाठः । स चाऽऽश्वलायनानामनुकूलः । "स्वयं पत्न्यपि वा पुत्रः कुमार्यन्तेवासी वा" इति तत्सूत्रात् । न सत्याषाढसूत्रानुसा