स्मार्तानि । सद्यस्काला पौर्णमासी द्व्यहकाला वोदितेऽनुदिते वा जुहोतीत्युभयोदाहरणानि । अनुनिर्वापोदाहरणं तु श्रौतमेव । पौर्णमासानन्तरं वैमृधानुनिर्वाप्यपक्षोऽङ्गीकृतश्चेत्कर्तव्य एवेति । उपांशुयाजदेवता विष्णुः प्रजापतिरग्नीषोमौ वा सांनाय्यमैन्द्रं माहेन्द्रं वा निरूढः पशुरैन्द्राग्नः सौर्यः प्राजापत्यो वेत्येवमादीनि श्रौतानि देवतोदाहरणानि । अग्नये स्वाहा सूर्याय स्वाहेति वेत्येवमादीनि स्मार्तानि । आग्रयण इन्द्राग्नी अग्नीन्द्रौ वेति तूभयोदाहरणम् । श्रपणोदाहरणं तु श्रौतमेव । हविःश्रपणमाहवनीये गार्हपत्ये वेति । एवमादिविकल्पस्थले यः पक्षः पूर्वमङ्गीकृतः स एवाऽऽन्तं स्वीकार्य इत्यर्थः ।
अत्र केचित्--इदमुपलक्षणम् । तेन व्याहृतीभिर्वाऽन्वादधातीत्यादिषु विकल्पस्थलेषु सर्वेष्वपि नियमः सिध्यतीत्याहुः । अस्मिन्मते स्मार्तोदाहरणं जयाभ्यातानराष्ट्रभृदुपहोमादिकं ज्ञेयम् ।
अन्ये तु प्रमाणाभावेनोपलक्षणपरतामन्याय्यां मन्यमानः परिगणितेष्वेवायं नियमो नान्यत्रेति वदन्ति । सायंहोमद्रव्येणैव प्रातर्होमः । एकफलकत्वात् ।
मण्डनोऽपि--"सायंहोमे तु यद्द्रव्यं तदेव प्रातरिष्यते" इति ।
एवं कर्तृनियमोऽपि सर्वथासंभवे यजमानं विना ।
तथा च गदाधरभाष्ये--
"श्रौताग्निमथवा स्मार्तं सायंप्रातर्हुनेद्द्विजः । |
मदनरत्ने--
"एक एव हुनेदग्निं सायंप्रातर्द्विजोत्तमः । |
स्मृतिसारे--
"सायं प्रातश्च जुहुयादेक एव हुताशनम् । |
गदाधरभाष्ये[१] स्मृतिसंग्रहे--
"यजमानं विना नान्यो जुहुयात्प्रातराहुतिम्" इति । |
- ↑ क. ष्ये--य ।