ग्न्याधानात्सत्यामपि धर्मसंपत्तौ प्रजासंपत्तौ च रागान्धस्य कदाचिद्दारग्रहणे नातीव दोष इति । यद्याहिताग्नेर्भार्या कर्मसु श्रद्दधाना शक्ता वा न भवति पुत्राश्च मृता अनुत्पन्ना वा तदा कर्तव्य एव विवाह इति व्याख्यातमुज्ज्वलाकृता ।
रत्यर्थे विवाहान्तरे विशेषः--
"एकामुत्क्रम्य कामार्थमन्यां वोढुं य इच्छति । |
याज्ञवल्क्यः--
"आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादिनीम् । |
सधनो धनतृतीयांशम्, अधनोऽशनाच्छादनात्मकं भरणं दाप्य इत्यर्थः ।
या त्वेतावता भरणेनापरितुष्टा गृहान्निर्गच्छेत्तां प्रत्याह मनुः--
"अधिविन्ना तु या नारी निर्गच्छेद्रोषिता गृहात् । |
अधिवे[१]दनीयोक्ता याज्ञवल्क्येन--
"सुरापी व्याधिता धूर्ता वन्ध्याऽर्थघ्न्यप्रियंवदा । |
अधिवेदनं भार्यान्तरपरिग्रहः । सुरापी मद्यपी । सुरापानेऽधिवेदनमात्रं न किंतु त्यागोऽपि, "तथा महति पातके" इति त्यागहेतुत्वेन तस्य स्मृतावभिधानात् ।
"पतत्यर्धं शरीरस्य यस्य भार्या सुरां पिबेत्" इति वचनाच्च । |
अत एव मनुः--
"मद्यपाऽसत्यवृत्ता च प्रतिकूला च या भवेत् । |
व्याधिता दीर्घरोगिणी । असत्यवृत्तेति पदच्छेदः ।
ब्रह्मपुराणे--
"धर्मे विघ्नकरीं भार्यामसतीं चातिकोपनाम् । |
त्यजेदधिविन्देत् । न तु भोगं परित्यजेदिति माधवः ।
- ↑ क. ख. ङ. वेदिनी ।