पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विवाहः]
५८९
संस्काररत्नमाला
( विवाहोत्तरं वर्ज्यानि )
 

 पितृयज्ञे पिण्डपितृयज्ञे । यज्ञे पित्र्येष्ट्यां सौमिके मखे च । ते सपिण्डाः ।

 सत्यव्रतः--

"पित्रोरेव मृताहे तु गयायां च महालये ।
कृतोद्वाहोऽपि कुर्वीत पिण्डनि[१]र्वपणं सुतः" इति ।

ज्योतिर्निबन्धे--

"अभ्यङ्गे सूतके चैव विवाहे पुत्रजन्मनि ।
माङ्गल्येषु च सर्वेषु न धार्यं गोपिचन्दनम्" इति ।

 एतच्च मासपर्यन्तम्,--

"विवाहादौ मासमेकं न धार्यं गोपिचन्दनम्" ।

 इति ज्योतिर्निबन्धवचनात् ।

स्मृत्यन्तरे--

"कृत्वा विवाहं व्रतबन्धनं च वर्षं तदर्धं न च तीर्थयात्राम् ।
क्षौरं च पिण्डांस्तिलयुक्तकर्म न चैव कुर्युर्हि नराः सपिण्डाः" इति ।

 ज्योतिष्प्रदीपे--

"स्नानं सचैलं तिलमिश्रकर्म प्रेतानुयानं कलशप्रदानम् ।
अपूर्वतीर्थामरदर्शनं च विवर्जयेन्मङ्गलतोऽब्दमेकम् ।
मासषट्कं विवाहादौ व्रतप्रारम्भणे(णं) न च ।
[२]व्रतस्योद्यापनं नैव नैव कुर्यादुपोषणम् ।
जीर्णभाण्डादि न त्याज्यं गृहसंमार्जनं तथा ।
ऊर्ध्वं विवाहात्पुत्रस्य तथा च व्रतबन्धनात् ।
आत्मनो मुण्डनं नैव वर्षं वर्षार्धमेव च" इति ।

 पुत्रग्रहणेनात्र पुत्र्यपि गृह्यते । मुण्डनं क्षौरम् ।

 कर्तनं तु भवत्येव,

"मुण्डनस्य निषेधे तु कर्तनं वै विधीयते" ।

 इति स्मृत्यन्तरवचनात् ।

 ([३]स्मृतिरत्नाकरे संग्रहे--

"विवाहोपनयोर्ध्वं तु वर्षं वर्षार्धमेव च ।
व्रतप्रारम्भणं नैव व्रतस्योद्यापनं तथा ।
न कुर्यात्पिण्डनिर्वापं न दद्या[४]त्करकाणि च ।



  1. ग. निर्वाप ।
  2. इदमर्धं क. ख. पुस्तकयोर्नास्ति ।
  3. धनुश्चिह्नान्तर्गतं क. ख. पुस्तकयोर्नास्ति ।
  4. ग. द्यात्कार ।