पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५७४
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--
( गृहप्रवेशस्थालीपाकः )
 

नमो ब्रह्मणे धुवायाच्युतायास्तु नमो ब्रह्मणः पुत्राय प्रजापतये नमो ब्रह्मणः पुत्रेभ्यो देवेभ्यस्त्रयस्त्रि शेभ्यो नमो ब्रह्मणः पुत्रपौत्रेभ्योऽङ्गिरोभ्यो यस्त्वा ध्रुवमच्युत सुपुत्र सपौत्रं ब्रह्म वेद ध्रुवा अस्मिन्पुत्राः पौत्रा भवन्ति प्रेष्यान्तेवासिनो वसनं कम्बलानि क स हिरण्य स्त्रियो राजानोऽन्नमभयुमायुः कीर्तिर्वर्चो यशो बलं ब्रह्मवर्चसमन्नाद्यमित्येतानि मयि सर्वाणि ध्रुवाण्यच्युतानि सन्तु । ध्रुवं त्वा ब्रह्म वेद ध्रुवोऽहमस्मिल्लाँकेऽस्मिंश्च जनपदे भूयासमच्युतं त्वा ब्रह्म वेद माऽहमस्माल्लोकादस्माच्च जनपदाच्च्योषि द्विषन्मे भ्रातृव्योऽस्मादस्माल्लोकादस्माच्च जनपदाच्च्यवतामचेष्टं त्वा ब्रह्म वेद माऽहमस्माल्लोकादस्माच्च जनपदाच्चेष्टिषि द्विषन्मे भ्रातृव्योऽस्माल्लोकादस्माच्च जनपदाच्चेष्टतामव्यथमानं त्वा ब्रह्म वेद माऽहमस्माल्लोकादस्माच्च जनपदाद्व्यथिषि द्विषन्मे भ्रातृव्योऽस्माल्लोकादस्माच्च जनपदाद्व्यथतां नभ्यं त्वा सर्वस्य वेद नभ्यमहमस्य जनपदस्य भूयासं मध्यं त्वा सर्वस्य वेद मध्यमहमस्य जनपदस्य भूयासं तन्तिं त्वा सर्वस्य वेद तन्तिरहमस्य जनपदस्य भूयासं मेथीं त्वा सर्वस्य वेद मेथ्यहमस्य जनपदस्य भूयासं नाभिं त्वा सर्वस्य वेद नाभिरहमस्य जनपदस्य भूयासं यथा नाभिः प्राणानां विषूवानेवमहं विषूवानेकशतं तं पाप्मानमृच्छतु योऽस्मान्द्वेष्टि यं च वयं द्विष्मो भूया सि मामेकशतान्पुण्यान्यागच्छन्तु" इति ध्रुवमुपतिष्ठते ।

 नक्षत्रादीनामभ्रादिप्रतिबन्धेनादर्शनेऽपि तस्यां तस्यां दिशि तं तमुपस्थेयपदार्थमनुलक्षीकृत्योपस्थानं कार्यम् ।

 तत उपस्थानदेश एव मनस आह्लादकेन वचसा भार्यां संभाष्य पुनः शालां प्रविश्याऽऽस्तृतमानडुहं चर्माभ्युक्ष्य निरस्याप उपस्पृश्य भार्यया सहापरेणाग्निं प्राङ्मुख उपविशति ।

अथ गृहप्रवेशस्थालीपाकः ।

 वरः सभार्य आचम्य प्राणानायम्याग्निं प्रज्वाल्य ध्यात्वा समित्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा गृहप्रवेशाङ्गभूताग्नेयस्थालीपाकयागकर्मणि ये यक्ष्यमाणे देवते ते परिग्रहीष्यामि । अग्निमेकया चर्वाहुत्या यक्ष्ये । अग्निं